SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Arachana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चा.रा.भू. कुलचित्तः॥२४॥ किमिति। को धर्ममवमन्यते, बलात्कार करोतीत्यर्थः। कुब्जाः वक्रशरीराः॥२५॥ एवमिति। पृष्ट्वेति शेषः विनिश्वस्य व्यथित्वा। समाधि टी.बा.का. ॥११॥ किंवक्ष्यन्तीति तद्वचनश्रवणावधानम्॥२६॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमीराख्याने बालकाण्डव्याख्याने द्वात्रिंशः सर्गः॥३२॥MIस. ३३ अथ कुशनाभस्य कन्यावचनं शृण्वतः क्षमाविशेष उच्यते त्रयस्त्रिंशे-तस्येत्यादि । शिरोभिश्चरणो स्पृष्ट्वा, पादयोः प्रणम्येत्यर्थः ॥ १ ॥ वायुरिति । एवं राजा विनिश्वस्य समाधि सन्दधे ततः ॥२६॥ इत्यारे श्रीरामायणे आदि बालकाण्डे द्वात्रिंशः सर्गः ॥३२॥ तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः। शिरोभिश्चरणौ स्टष्ट्वा कन्याशतमभाषत ॥१॥ वायुःसर्वात्मको राजन प्रधर्षयितुमिच्छति। अशुभंमार्गमास्थाय न धर्म प्रत्यवेक्षते ॥२॥ पितृमत्यःस्म भद्रं ते स्वच्छन्दे न वयं स्थिताः। पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥३॥ तेन पापानुबन्धेन वचनं न प्रतीच्छता। एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृशम् ॥४॥ तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः । प्रत्युवाच महातेजाः कन्याशतमनु त्तमम् ॥५॥क्षान्तं क्षमावतां पुश्यः कर्तव्यं सुमहत्कृतम् । ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥६॥ प्रवर्षयितुम् अभिभवितुम् इच्छति । वर्तमानसामीप्याल्लद । अशुभं बलात्काररूपम् ॥२॥ पितृमत्य इति । पितृमत्यः स्म, अतः स्वच्छन्दे| स्वातन्त्र्ये किश्चित्पतिस्वीकारविषये । वयं न स्थिताः अतो नः पितरमेव वृणीष्व । स यदि नः अस्मान्, तुभ्यं दास्यति तदा तव भविष्यामः । ते भद्रमस्तु ॥३॥ तेनेति । एवं ब्रुवन्त्यो वयम् । अस्माकं वचनं न प्रतीच्छता अनङ्गीकुर्वता । पापानुबन्धेन पापानुसारिणा तेन वायुना निहताः ॥४॥ तासामिति । अनुत्तमं क्षमावत्त्वात् ॥५॥क्षान्तमिति । हे पुत्र्यः ! क्षमावतां कर्त्तव्यं कर्तुमर्ह "कृत्यानां कर्तरिवा" इतिषष्ठी । क्षान्तं क्षमा । ते कालो मृत्युः माभूत् । तेन तं नाधमन्यस्थ, धर्मेण पितृप्रदानरूपेण वरं पतिमुपास्महे प्रतीक्षामहे । प्रभुः वायुः ॥२०-२५॥ एवमिति। एवं विनिश्वस्प व्ययित्वा ॥११९॥ समाधि सन्दधे, समाधिर्यथितस्य मनसःसमाधानम्॥२६॥इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां बालकाण्डव्याख्यायो द्वात्रिंशः सर्गः॥३२॥ तस्येति । चरणी स्पृष्टा नमस्कृत्य ॥ १॥ वायुरिति । इच्छति ऐच्छत् । प्रत्यवेक्षते प्रत्यवेक्षत ॥२॥ पितृमत्य इति । स्वच्छन्दे स्वातनये यदि नः अस्मान दास्यते दास्यति, तर्हि वयं त्वदीयाः ॥३॥ तेनेति । पापानुबन्धेन पापानुवर्तनहेतुना वचनं न प्रतीच्छता अनङ्गीकुर्वता वायुना निहताः ॥ ४॥५॥क्षान्त । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy