________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
कर्मणः । ततः तद्वाक्यश्रवणेन । अपहास्य अथाब्रवीत्॥१७॥ अन्तरिति । अन्तश्चरसि प्राणरूपेण । भूतानां प्राणिनां प्रभावज्ञाः एवंविधप्रभावज्ञान अस्मान् ज्ञातभवत्प्रभावान् ॥ १८॥ कुशेति । स्थानात अधिकारात् । देवं भवन्तम् ॥१९॥ माभूदिति । सः नः पिता ते कालः मृत्युः माभूत्।
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम। प्रभावज्ञाः स्म ते सर्वाः किमस्मानवमन्यसे ॥ १८॥ कुशनाभसुताः सर्वाः समास्त्वां सुरोत्तम । स्थानाच्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ १९॥ माभूत्स कालो दुर्मेधः पितरं सत्यवादिनम् । नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥२०॥पिता हि प्रभुरस्माकं दैवतं परमं हि नः। यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥२॥ तासां तद्वचनं श्रुत्वा वायुः परमकोपनः । प्रविश्य सर्वगात्राणि बमा भगवान् प्रभुः॥२२॥ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् । प्रापतन भुवि सम्भ्रान्ताः सलज्जाः साश्रुलोचनाः ॥२३॥ स च तादयिता दीनाः कन्याः परमशोभनाः। दृष्ट्वा भनास्तदा राजा सम्भ्रान्त इदमब्रवीत
॥२४॥ किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते । कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥२५॥ हे दुर्मेधः दुर्बुद्धे ! पितरं नावमन्यस्व । धर्मेण पितृप्रदानरूपेण। वरं स्वयधुपास्महे प्रतीक्षामहे, पिता स्वयं यस्मै दास्यति तं प्रतीक्षामह इत्यर्थः ॥२०॥ उक्तं विवृणोति-पितेति ॥२१॥ तासामिति । बभन्न कुन्जीचकार ॥२२॥ ता इति । सलजाः शरीरवैरुप्यादितिभावः ॥२३॥ स चेति । सम्भ्रान्तः पयो । चम् ॥ १२ ॥ अथेति । उद्यानभूमिमागम्य, विरेजुरिति शेषः ॥ १३-१८ ॥ कुशनामेति । स्थानात अधिकारात । देवमिन्द्रम् ॥ १९॥ माभूदित्यादि । सः पिता
मुनिभा०-शनामकन्यकाशतं स्वविषयनिरतिशयाभिलाषविशेषाकृष्टचित स्वयमेव प्रतिवाचमानं वायु प्रत्याह-माभूदिति । दुर्मेधा दुर्मते वायो । धर्मेण गान्धर्वविवाहरूपधर्मेणा स्वमेव विद्यमानपितृचरणा भपि तदहिता इव स्वतन्त्राः सत्यः वरं पति यदा उपास्महे मजामा, सः कालः माभूत् तादृशकाल विशेषः कदापि नोत्पद्यताम् । नेन सत्यवादिनं पितरं नावमन्यस, अस्मरिपतुरवमानं नाचरेत्यर्थः । यद्वा सः भस्मपिता ते काल: अन्तकः माभूत, अत एव तं नावमन्यस्व । पितृमायो वयं न स्वच्छन्द स्थिताः, अतएव धर्मेण पितृमत्यनुरोधनधर्मेण स्वयंवरमुपास्मह इत्यर्थः ।। १९ ॥२०॥
१ प्रभुः । अरविमात्राकृतयो भनदा भयार्दिताः । इत्यधिकः पाठः ।
For Private And Personal Use Only