________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. ॥११॥
सुमागधीति ।मगधदेशादागता मागधीति शोण एवोच्यते। आययावितिच्छेदः॥८॥ सैषेति । पूर्वाभिचरिता पूर्वदेशात्प्रत्यक्मुखवाहिनी । सुक्षेत्रा उभय ।।
टी.बा.को. पार्श्वत इति शेषः॥९॥ कुशनाभ इत्यादि। घृतवत्पुरुषं दृष्ट्वा द्रवतीसत्यञ्चतीति घृताची। कुशनाभभार्या घृतवत्पुरुषं कृत्वाञ्चतीति वा। अप्सरसः॥१०॥ स०३२ तास्त्विति श्लोकद्वयम् । उद्यानभूमिमागम्य शतहदा इव स्थिताः। शतहदाः विद्युतः । नृत्यमानाः नृत्यन्त्यः वादयन्त्यः, वीणा इति शेषः । आमोदं
सुमागधी नदी रम्या मगधान विश्रुता ययौ। पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ ८॥ सैषा हि मागधी राम वसोस्तस्य महात्मनः। पूर्वाभिचरिताराम सुक्षेत्रा सस्यमालिनी॥९॥ कुशनाभस्तु राजर्षिः कन्याशतमनु त्तमम् । जनयामास धर्मात्मा घृताच्या रघुनन्दन ॥१०॥ तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः । उद्यान भूमिमागम्य प्रावृषीव शतह्रदाः॥११॥ गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च सर्वशः। आमोदं परमं जग्मुर्वरा भरणभूषिताः॥१२॥ अथ ताश्चारुसङ्गियो रूपेणाप्रतिमा भुवि। उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१३॥ ताःसर्वगुणसम्पन्ना रूपयौवनसंयुताः । दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १४॥ अहं वः कामये सर्वा भार्या मम भविष्यथ । मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १५ ॥ चलं हि यौवनं नित्यं मानुषेषु विशेषतः। अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१६॥ तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः। अपहास्य
ततो वाक्यं कन्याशतमथाब्रवीत् ॥१७॥ सन्तोषम् । स्वलंकृताः कुसुमचन्दनतिलकादिभिः॥११॥१२॥ अथेति । तारा इव बभुरितिशेषः ॥१३॥ ता इति। सर्वगुणसम्पन्नाः सर्वालङ्कारसम्पन्नाः। सर्वत्र आत्मा स्वरूपं यस्य सः सर्वात्मकः, सर्वत्र सञ्चारीत्यर्थः ॥ १४ ॥ अहमिति । वः भवतीः । मानुषे भवो मानुषः । भावः अनुरागः । त्यज्यतां ॥११॥ तथा सति दीर्घमायुरखाप्स्यथ ॥ १५ ॥ चलमिति । नित्यं सर्वदा अक्षयमिति मद्भार्यात्व इतिशेषः॥१६॥ तस्येति । अक्लिष्टकर्मणः अप्रतिहत महोदयं महोदयनामकम् ॥ ५-८ ॥ सैवेति । पूर्वाभिचरिता पूर्ववाहिनी ॥९॥ कुशनाभ इति । पृताच्यामप्सरसि ॥१०॥ ११ ॥ गायन्त्य इति । आमोदं सन्तो
For Private And Personal Use Only