________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsur Gyanmandir
चोदित इति । निखिलं वृत्तान्तमित्यर्थः ॥२५॥ इति श्रीगोविन्दराजविरचिते श्रीरामा मणिमनीराख्याने बालकाण्डव्याख्यान एकत्रिंशः सर्गः॥३१॥M Vएवं शोणकूलदेशवैभवे पृष्टे अयं मदश्याना देश इति विवक्षन स्वान्वयं प्रदर्शयति द्वात्रिंशे-ब्रह्मयोनिरित्यादि । ब्रह्मा योनिः कारणं यस्य सः ब्रह्मयोनिः अयोनिजो ब्रह्मपुत्रः। महान् ज्ञानशौर्यादिभिरितरब्रह्मपुत्रविलक्षणः । को भूमौ शेत इति कुशः। नारदादिवत् ब्रह्मलोकेऽनवस्थाय प्रजापालने दत्तादर
चोदितो रामवाक्येन कथयामास सुव्रतः।तस्य देशस्य निखिलमृषिमध्ये महातपाः॥२५॥
इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥३१॥ ब्रह्मयोनिमहानासीत् कुशो नाम महातपाः। अक्लिष्टवतधर्मज्ञः सज्जनप्रतिपूजकः॥ ॥ स महात्मा कुलीनायाँ युक्तायां सुगुणोल्बणान् । वैदा जनयामास सदृशाश्चतुरः सुतान् । कुशाम्ब कुशनाभं च आधूर्तरजसं वसुम् ॥२॥ दीप्तियुक्तान महोत्साहान क्षत्रधर्मचिकीर्षया । तानुवाच कुशः पुत्रान् धर्मिष्ठान सत्यवादिनः ॥३॥ क्रियता पालनं पुत्रा धर्म प्राप्स्यथ पुष्कलम् । ऋषेस्तु वचनं श्रुत्वा चत्वारो लोकसम्मताः । निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥४॥ कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् । कुशनाभस्तु धर्मात्मा पुरं चक्रे महोद यम् ॥५॥ आधूर्तरजसो राम धर्मारण्यं महीपतिः। चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥६॥ एषा वसुमती
राम वसोस्तस्य महात्मनः । एते शैलवराः पञ्च प्रकाशन्ते समन्ततः॥७॥ तया भूमाववस्थानात् कुश इत्यस्य नाम, अत एव क्षत्रियव्यापारात् क्षत्रियोऽयम् । अकिष्टं निर्बाधं व्रतं यस्य सोऽविष्टवतः अकिष्टवतश्चासौ धर्मज्ञ श्वेति कर्मधारयः ॥ १॥ स इति साईश्लोकः । युक्तायाम् अनुरूपायाम्॥२॥ दीप्तीति साईश्लोकः। क्षत्रधर्मः प्रजापालनम् । पुष्कलं समग्रम् ॥३॥ ऋषः कुशस्य निवेशं सन्निवेशम् ॥४॥ कुशाम्ब इत्यादिश्लोकद्रयम् ॥५॥६॥ एषेति । एषा शोणकूलस्था। शैलवराः गिरिव्रजसंज्ञामूलाः॥७॥ मत् । ब्रह्मादीनां यूथमन्वगात् ॥१४-२४॥ चोदित इति । निखिल वक्तव्यं सर्वम् ॥ २५॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां बालकाण्ड व्याख्यायाम् एकत्रिंशः सर्गः ॥ ३१ ॥ ब्रह्मयोनिरिति । अक्रिष्टवतः अमङ्गवतः॥१॥ स इति । युक्तायाम्-अनुरूपायाम् ॥२॥३॥ ऋषेरिति । निवेशं सन्निवेशम्॥४॥
For Private And Personal Use Only