________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥११७॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
स्वस्तीति । जाह्नवीतीरे स्थितं हिमवन्तं गमिष्यामीत्यन्वयः । शिलोच्चयं पर्वतं सिद्धाश्रमाद्धिमवगमनं मिथिलामार्गेणेतिज्ञेयम् ॥ १५ ॥ प्रदक्षिणमिति । ततः वनदेवतामन्त्रणानन्तरम् ।। १६ ।। तमिति । अनुसारिणम् उत्तरदिगनुसारिणं तम् । प्रायेण बाहुल्येन । ब्रह्मवादिनां शकटीशतमात्रं शकटयः ७ शकटानि तेषां शतमात्रं शतप्रमाणम् । अन्वयात् अन्वगात् । यद्वा शतमात्रमन्वयात्, इतरत्सर्वे सिद्धाश्रम एव स्थितमित्यर्थः । अत्र शकटीशब्देन
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् । उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥ १५ ॥ प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम् । उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १६ ॥ तं प्रयान्तं मुनिवरमन्वयादनुसारिणम् । शकटीशतमात्रं च प्रायेण ब्रह्मवादिनाम् ॥ १७ ॥ मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः । अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम् ॥ १८ ॥ निवर्तयामास ततः पक्षिसंघान मृगानपि ॥ १९ ॥ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । वासं चक्रुर्मुनिवराः शोणाकूले समागताः ॥ २० ॥ तेऽस्तंगते दिनकरे स्नात्वा हुतहुताशनाः । विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ २१ ॥ रामोऽपि सह सौमित्रिर्मुनीस्तानभिपूज्य च । अग्रतो निषसादाथ विश्वा मित्रस्य धीमतः ॥ २२ ॥ अथ रामो महातेजा विश्वामित्रं महामुनिम् । पप्रच्छ नरशार्दूलः कौतूहलसमन्वितः ॥ २३ ॥ भगवन् कस्य देशोऽयं समृद्धवनशोभितः । श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥ २४ ॥
। शकट्यारोपिताग्निहोत्र सम्भारादिकमुच्यते ॥ १७ ॥ मृगेति । तद्भक्तयेति भावः ॥ १८ ॥ निवर्तयामासेत्यर्द्धम् । अत्र पक्ष्यादिनिवर्तनेन मुनीनां गमनं द्योतितम् ॥ १९ ॥ त इति । शोणः पुंनदः, स एव शोणेत्यपि व्यपदिश्यते ॥ २० ॥ त इति । शोणे स्नात्वा दिनकरेऽस्तंगते सति हुतहुताशना इत्यन्वयः ॥ २१ ॥ राम इति । अभिपूज्य अभिवाद्य ॥ २२ ॥ अथेति । स्पष्टम् || २३ || भगवन्निति । अयं शोणकूलस्थः ॥ २४ ॥ आयागभूतं धनुः मखेषु प्राधान्येनार्चितं धनुरायागः तद्भूतम् || १३ ||१४|| स्वस्तीति । हिमवन्तं गमिष्यामीत्यन्वयः । हिमवतः स्वाश्रमत्वादितिभावः ॥ १५॥ प्रद क्षिणमिति । उपचक्रमे गन्तुमिति शेषः || १६|| अनुसारिणाम् उक्तदिगनुसारिणाम्, पश्चाङ्गामिनां वा । शकटीशतमात्रं शतपरिच्छित्रशकटयारोपिताग्निहोत्रसम्भारादि 01
For Private And Personal Use Only
A
टी.बा. क
स० ३१
॥११७॥