________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
तस्य तस्यकृते ॥ ६ ॥ त्वमिति । गमिष्यसि यदीति शेषः । धनुरत्नं धनुः श्रेष्ठम् । दीर्घाभाव आर्षः । चकाराद्यज्ञं चेत्यर्थः । तत् प्रसिद्धम् ॥ ७ ॥ तस्य धनूरनं कुतः समायातम् ? तत्राह तद्धीति । मखे सदसि दैवतैर्दत्तमित्यन्वयः ॥ ८ ॥ नास्येति । आरोपणं ज्यारोपणम् ॥ ९ ॥ धनुष इति । | जिज्ञासन्तः जिज्ञासमानाः ॥ १० ॥ तदिति । यज्ञं द्रक्ष्यसि तत्र तद्धनुश्च द्रक्ष्यसीत्यन्वयः ॥ ११ ॥ मखे किमर्थे दत्तम् ? तत्राह तद्धीति । सुनाभं
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि । अद्भुतं धनुरत्नं च तत्र तद्द्रष्टुमर्हसि ॥ ७॥ तद्धि पूर्व नरश्रेष्ठ दत्तं सदसि दैवतैः । अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ ८ ॥ नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः । कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ ९ ॥ धनुषस्तस्य वीर्यं तु जिज्ञासन्तो महीक्षितः । न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ १० ॥ तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः । तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम् ॥ ११ ॥ तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः । याचितं नरशार्दूल सुनाभ सर्वदैवतैः ॥ १२ ॥ आयागभूतं नृपतेस्तस्य वेश्मनि राघव । अर्चितं विविधैर्गन्धैर्माल्यैश्चागरुगन्धिभिः ॥ १३ ॥ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा । सर्विसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः ॥ १४ ॥
शोभनमुष्टिबन्धनस्थानम् । दैवतैः दैवतेभ्यः । याचितं दत्तं चेत्यर्थः ॥ १२ ॥ आयागेति । आयागभूतं धनुरुत्सवे प्राधान्येनार्चितं धनुरायाग उच्यते । अत्र विश्वामित्रेणैवानुक्तिः सर्वसम्मतत्वद्योतनाय ॥ १३ ॥ एवमिति । पूर्व विश्वामित्रं पुरस्कृत्येत्युक्तत्या प्राधान्यात् विश्वामित्र उक्तवानित्यनूद्यते ॥ १४ ॥ अतिशयितधर्मवान । “चिण्मतोर्लुक्” इति मतुब्लोपः । तत्र तं देशम् ॥६॥ त्वं चैवेति । तत्र यज्ञे । तत् प्रसिद्धम् । चकारोऽनुक्तस्त्रीरत्नसमुच्चयपरः ॥७॥ तद्धीति । सदसि दैवतैर्दत्तम् ॥ ८-१० ॥ तत्र मिथिलायाम् । चकारेण जानकीस्वीकारसमुच्चयः ॥ ११ ॥ तद्धीति । सुनाभं शोभनमध्यम् । सर्वदेवतैः सर्वदेवतेभ्यः ॥ १२ ॥
विषम० पूर्वपूर्वस्मिन् काले देवराताख्यप्राचीन जनकस्य यज्ञे सदसि दैवतैर्दक्षयज्ञवचे प्रसादितात् शिवालुब्धम् । यज्ञप्रसादितैः शिवसहितैर्देवतैर्देवरातहस्ते तदप्रमेयबलं धनुर्दत्तम् । अतस्तत्र तिष्ठतीति शेषः ॥ ८ ॥ अयमत्र धनुरागमनक्रमः -पूर्व देवास्त्रिपुरवधाय विश्वकर्मणा निर्मितं धनुर्महादेवाय ददुः । तद्भगवतोर्बलाचलपरीक्षानिमित्तकविश्वरोधे विष्णुपदाक्रमैर्जडीकृतम् । देवैः प्रार्थितो महादेवो धनुरिच्छतो देवरातस्य हस्ते न्यस्तवान् । ततः प्रभृति न्यासभावेन वर्तमानं जनकेन स्वयज्ञे स्वत्वेन याच्यमानं देवैस्तस्य यज्ञफलत्वेन दशमिति ॥ १३ ॥
For Private And Personal Use Only