________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
परत्वात् ॥१६॥ स इति । सागरसंपूवे समुद्रपूरे। अब गायत्रीद्वितीयाक्षरं सः ॥ १७॥ विचेतनमिति । शीतेषुशन्दोऽवयववृत्त्या मानवाने वर्तते । दृश्य दृष्ट्वा । मारीचस्य प्राणरक्षणं भाविकार्यान्तरसाधनाय ॥ १८॥ इमानिति । वधप्रयोजकानि निर्पणत्वादीनि ॥ १९ ॥ संगृह्येति । अद्भुतं यथातथा
स तेन परमात्रेण मानवेन समाहतः। सम्पूर्ण योजनशतं क्षिप्तः सागरसम्प्लवे ॥ १७॥ विचेतनं विघूर्णन्तं शीतेषु बलताडितम् । निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ १८॥ इमानपिवधिष्यामि निघृणान दुष्टचारिणः । राक्षसान पापकर्मस्थान यज्ञन्नान रुधिराशनान् ॥ १९॥ संगृह्यास्त्रं ततो रामो दिव्यमानेयमद्धतम् । सुबाहूरसि चिक्षेप स विद्धःप्रापतद्भुवि ॥२०॥ शेषान वायव्यमादाय निजघान महायशाः।राघवः परमोदारो मुनीनां मुद मावहन् ॥२१॥ स हत्वा राक्षसान सवान् यज्ञनान रघुनन्दनः। ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥२२॥ अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः। निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ २३ ॥ कृतार्थोऽस्मि
महाबाहो कृतंगुरुवचस्त्वया। सिद्धाश्रममिदं सत्यं कृतं राम महायशः॥२४॥ इत्यारे श्री. बा. त्रिंशः सर्गः॥३०॥ चिक्षेप॥२०॥ शेषानिति । निजघान हिंसितवान् ॥२१॥ स इति । पुरा विजये असुरविजये ॥२२॥ अथेति । निरीतिकाः निर्वाधाः ॥ २३ ॥ कृतार्थ इति । गुरुवचः पितृवचः ॥२४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥ गायत्र्याः स इति द्वितीयाक्षरम् । स तेनेत्यस्य श्लोकस्यादिमाक्षरेण स इत्यनेन संग्रहाति । संप्लवे पूरे ॥ १७ ॥ विचेतनमिति । दृश्य दृष्टा । विचेतनं चैतन्य रहितम् । अत एव विपूर्णमानं, शीतेषुमिति मानवास्त्रनामान्तरम् ॥ १८-२२ ॥ पश्येति । शीतेषु मानवास्त्रम् न व्ययुज्यत, मारीच इति शेषः ॥ अथेति । निरीतिकाः निरुपद्रवाः ॥ २३ ॥ कृतार्थ इति । त्वया हेतुना कृतार्थोस्मीति चान्वयः। सत्यं कृतम् अन्वर्थनामकं कृतमित्यर्थः ॥ २४ ॥ इति श्रीमहेश्वर तीर्थकृतायो श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायो त्रिंशः सर्गः ॥३०॥
१ मत्रवीत् । • पश्य लक्ष्मण शीतेषू मानव धर्मसंहितम् । मोहयित्वा नयस्येनं न च प्राणैर्व्ययुज्यत्त । इमा । २ संगृह्य सुमहचानमाग्नेयं रघुनन्दनः । इति पाठान्तरम् ।
For Private And Personal Use Only