________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
॥११४॥
तमिति । उत्पत्योत्पत्येति प्रीत्यतिशयोक्तिः, आगत्यागन्येत्यर्थः । अनेन निरन्तरं तदागमनोत्तया मुनिबहुत्वमुच्यते ॥२५॥ यथाहमिति । यथाई मुनि.टी.चा.का. योग्यतामनतिकम्य ॥२६॥ मुहूर्तमिति । मुहूर्तम् अल्पकालं, विश्रान्ताविवेति मनुष्यभावनोच्यते ॥ २७ ॥ अयेवेति । अद्यैव प्रवंशदिन एव । अयं ।। सिद्धाश्रमः सिद्धः स्यात् । त्वद्यज्ञसिद्धया अन्वर्षसिद्धसंज्ञोऽस्तु, सत्यमस्तु वचस्तव । " अत्रैव पुरुषव्याघ्र हन्तव्या दुष्टचारिणः" इति वच इत्यर्थः।।
तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः। उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ २५ ॥ यथाई चक्रिरे पूजां विश्वामित्राय धीमते । तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ २६ ॥ मुहूर्तमिव विश्रान्तौ राजपुत्रा वरिन्दमौ । प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ २७ ॥ अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव । सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥ २८॥ एवमुक्तो महातेजा विश्वामित्रो महामुनिः। प्रविवेश ततो दीक्षा नियतो नियतेन्द्रियः ॥ २९॥ कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ । प्रभातकाले चोत्थाय पूर्वी सन्ध्यामुपास्य च ॥३०॥ स्पृष्टोदको शुची जप्यं समाप्य नियमेन च । हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ ३१ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥२९॥ राक्षसान सर्वथा इनिष्य इतिभावः ॥२८॥ एवमिति । नियतः निगृहीतान्तःकरणः॥२९॥ कुमाराविति श्लोकद्रयम् । स्पृष्टोदको दत्तायो । नियमेन जप्यं समाप्य । अनहोत्रं होमः ओपासनहोमः। दीक्षामध्ये 'नाग्निहोत्रं न दर्शपूर्णमासाभ्यां यजत इति' इत्यग्निहोत्रस्य निषिद्धत्वात् मानसमनिहोत्र मित्येके ॥३०॥३१॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्यानेबालकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥२९॥ सरमाह-पतमिति ॥ २२ ॥ अनुत्तमं सर्वोत्कृष्ट । तदेतदाश्रमपदं यथा मम स्वभूतं नथा नवापि, विष्ण्ववतारत्वादिति गढोऽभिप्रायः ॥ २३-२७ ॥ अद्यैवेति । दीक्षा ॥११४॥ प्रविश स्वीकुरु । सिद्धः अन्यर्थः ॥ २८ ॥ २९ ॥ कुमाराविति । कुमाराविव स्कन्दविशाखाविव ॥ ३० ॥ ३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायर्या बालकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥ २९॥
For Private And Personal Use Only