________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.ग.भू.
वावसरे देवाश्चागताः प्रार्थितवन्त इति ॥९॥१०॥ तपोमयमिति । तपोमयं तपःप्रचुरम्, प्राचुर्य चाराध्यत्वेन । तपसाराध्यमित्यर्थः । तपोराशिं तपो टी.वा.का. राशिस्वरूपम् । तपःफलदमिति यावत् । तपोमूर्ति ज्ञानस्वरूपं “तप आलोचने" इतिधातोरसुन्प्रत्ययः । तपात्मकं तपःस्वभावम्, ज्ञानगुणकामिन
स. २९ त्यर्थः । उक्तादातोः 'घनर्थे कविधानम्'इति कः। पुरुषोत्तमं बद्धमुक्तोभयावस्थाजीवादिलक्षणम्, त्वां सुतप्तेन अनन्यप्रयोजनतयानुष्ठितेन तपसा आरा धनेन । पश्यामि साक्षात्करोमि । सर्वकर्मसमाराध्यं सर्वकर्मफलप्रदं ज्ञानस्वरूपत्वेन समस्तहेयप्रत्यनीकज्ञानानन्दाद्यपरिमितगुणवत्त्वेन च सर्वस्माद
तपोमयं तपोराशिं तपोमूर्ति तपात्मकम् । तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥११॥शरीरे तव पश्यामि जगत्सर्वमिदं प्रभो। त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥१२॥ तमुवाच हरिःप्रीतः कश्यपं धूतकल्मषम् । वरं वरय भद्रं ते वराहोऽसि मतो मम ॥ १३॥ तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् ॥ १४॥ अदित्या
देवतानां च मम चैवानुयाचतः । वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ॥ १५॥ विलक्षणं त्वां साक्षात्करोमि । एतदेव मे परमप्रयोजनमित्यर्थः ॥११॥ शरीर इति । इदं चेतनानेतनात्मकं सर्वजगत्। तव शरीरेऽस्मिन् पश्यामि । एवंनु गीतम्-"पश्यामि देवांस्तव देव देहे सास्तथा भूतविशेषसान् । ब्रह्माणमीशं कमलासनस्थमृषीश्च सर्वानुरगांश्च दिव्यान्॥” इति । यदा "जगत्सवे शरीरम्" इत्युक्तत्वात् शरीरतया पश्यामीत्यर्थः । त्वमनादिः उत्पत्तिरहितः। अनिर्देश्यः एतावानिति परिच्छेत्तुमशक्य इत्यर्थः। अतस्त्वामहं शरणं । रक्षितारं गतः ॥ १२॥ तमिति स्पष्टम् ॥ १३॥ तच्छुत्वेत्यर्द्धम् । मारीचःमरीचिपुत्रः॥ १४ ॥ अदित्या इति । अदित्या याचमानायाः । देवतानां निति । अदित्या ४ सहितो व्रतं समाप्य देव्या तयैव सहितस्तुष्टावेत्यन्वयः ॥९॥ १० ॥ तप इति । तपोमयं तपःप्रचुरम् । तप आत्मकं तपस्स्वभावम् ॥ ११ ॥ शरीर इति । पश्यामि साक्षात्करोमि । अनिदेश्यः इदं त्वया निर्देष्टुमशक्य इत्यर्थः ॥ १२ ॥ वरम् अभीष्टम् । वराहः दिव्यवर्षसहस्रतपसा वरदानयोग्यः ॥१३॥ तदिति । मारीचः मरीचिपुत्रः ॥ १४ ॥ अदित्या इति । अनुयाचत इत्यस्य इतरयोरपि लिङ्गवचनम्यत्ययेन सम्बन्धः ॥ १५ ॥
मुनि-पदा सः हित इतिच्छेदः । अदित्याः हितः सः तुष्टावेत्यन्वयः ॥ ९॥१०॥ तपोमयमिति । तपोमयं ज्ञानप्रचुर, तपोराशि तेजोराशिम् । " तपो वीर्यमहाशीर्षज्ञानतेजस्म कीर्त्यते" हलायुधः । तपोमर्तिम् ज्ञानशरीरन् । तपात्मकं ज्ञानस्वरूपम् । छान्दसः सलोपः । एवंविधं पुरुषोत्तम वा सुतमेन साङ्गमनुष्ठितेन तपसा पश्यामीत्यर्थः ॥ ११ ॥
For Private And Personal Use Only