SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org डुद्देशेन तत्तद्धविःप्रदानस्य यागत्वात्तस्य च देवशत्रोरयोगात् । नच चतुर्थ्यन्तःशब्दो देवतेतिवाच्यम् । अचेतनप्रीणनासम्भवात् तत्प्रीतिमूलफला सिद्धेश्वः अत एव केवला कियैव फलदेति प्रत्युक्तम् । अतोऽर्थवादाद्यनुरोधेन शब्दक्रियातिरिक्ता सचेतना वज्रहस्तत्वादिविशिष्टविग्रहवती देवता । नच विग्रहवत्त्वे युगपदनेकयागसन्निधानासम्भवः । दिव्यशक्तिमत्त्वेन नानाशरीरपरिग्रहसम्भवेन तेषां सर्वयागसान्निध्यस्य सुलभत्वात् । तस्मान्न देवता | वैरिणो यागसम्भव इति । उच्यते-नाथं बलिना क्रियमाणो यागः इन्द्रादिदेवताराध्यकः, येनोक्तदोषः स्यात् । किन्तु भगवदाराधनभूतः कश्विद्याग विशेषः । तस्य विष्णुभक्तत्वेन प्रसिद्धत्वात् । तर्हि भक्तयज्ञविनं विष्णुः कथं कुर्यात् ? स्वभक्तस्यापि स्वभक्तविरोधित्वं भगवतोऽसह्यम् । ततः पुत्रान्तर सत्वं सुरहितार्थाय मायायोगमुपागतः । वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ ८ ॥ एतस्मिन्नन्तरे राम कश्यपोऽग्निसमप्रभः । अदित्या सहितो राम दीप्यमान इवौजसा ॥ ९ ॥ देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् । व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥ १० ॥ Acharya Shri Kalassagarsuri Gyanmandir विरोधिपुत्रशिक्षणवत् स्वाश्रितदेवविरोधिशिक्षणं युक्तमेव । अतएवोक्तम्- “ मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत् " इति । तहि तस्य धार्मिकस्य कथं निग्रहः स्यात्तत्राह ये चेत्यादिश्लोकद्वयेन । ये यत्र वस्तुवाहनादिषु यद्वस्तु याचितारः याचिष्यमाणाः सन्तः । इतस्ततः देशादेशमभिवर्तन्ते तत्सर्व तेभ्यः यथावत्सत्कारपूर्वकं प्रयच्छति ॥ ७ ॥ स इति । माया विष्णुत्वाच्छादिका शक्तिः, तस्या योगं सम्बन्धमुपागतः । वामनत्वं वामनरूपत्वं गतः । कल्याणम् अस्मत्कार्य कुरु । तस्मिन्नौदार्याख्यो महागुणो वर्तते, तेन त्वं वामनवेषो भूत्वा याच्यापदेशेन तद्राज्यमपहृस्य देहीतिभावः ॥८ ॥ एतस्मिन्निति श्लोकद्वयम् । एतस्मिन्नन्तरे देवप्रार्थनावसरे । कश्यपः अदित्या सहितो व्रतं समाप्य विष्णुदेशेन कृतं व्रतं समाप्य । वरदं वरदानाय सन्नि ॐ हितं विष्णुं देवीसहायः सन् तुष्टाव । अत्र रामपदद्वयं रूढया योगेन च निर्वाह्यम् । व्रतानुष्ठानकाले वरकाले च देवीसाहित्यद्योतनाय द्विःप्रयोगो देव्याः । अयमत्र क्रमः - "सोऽकामयत बहुस्यां प्रजायेयेति । स तपोऽतप्यत" इत्युक्तरीत्या विष्णुर्जगद्रक्षणचिन्तापरोऽत्र देशे चिरमदृश्य उवास । तद्विदित्वा तमेव पुत्रं लब्धुकामः कश्यपो देव्या सह दिव्यवर्षसहस्रनिर्वर्त्य विष्ण्वाराधनरूपं किञ्चिद्रतमनुष्ठाय तदन्ते वरदानाय दृश्यमानं विष्णुं तुष्टाव । तस्मिन्ने चेत्यादि । इतस्ततः आगताः यत्र यागे यच्च यद्वस्तु यथावत यावञ्च याचितारः याचिप्यमाणाः, एवमभिवर्तन्तेभ्यस्तत्सर्वं नव यथावञ्च प्रयच्छतीत्यर्थः ॥७॥ ८ ॥ एतस्मि For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy