SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahave Jain Aradhana Kendra Acharya Shri Kailassagarsur Gyanmand चा.रा.भ. ५११२॥ टी.बा.काँ. स. २९ श्वचार, पश्चाद्वामनरूपेणापीति तस्याश्रमस्यातिशयो दर्शितः। विष्णोरत्र तपश्चरणं लोके तपसः प्रवर्त्तनाय, बदरिकाश्रम इव नारायणस्य । सिद्धा श्रमत्वं निर्वक्ति सिद्ध इति । महातपाः काश्यपः अत्र हि यस्मात् सिद्धः तपःफलं प्राप्तः तस्मादेष सिद्धाश्रमो नाम ।।३।। एतस्मिन्निति साईश्लोकः एतस्मिन्काले विष्णोस्तपश्चरणकाले। विरोचनः प्रहादसुतः, तस्यापत्यं वैरोचनिः। समरुद्गणान् सवायुगणान् । कारयामास मन्त्रिभिरिति शेषः । तद्रा ज्यम् इन्द्रराज्यम् ॥४॥ बलेरिति । भावलक्षणे षष्ठी । बलौ यजमाने यागं कुर्वाणे। साग्निपुरोगमाः पुरोगमेनामिना सहिताः, अग्निमुखत्वाद्देवानाम् । स्वय एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः । निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान् । कारयामास तद्राज्य त्रिषु लोकेषु विद्युतः॥४॥ बलेस्तु यजमानस्य देवाः सानिपुरोगमाः। समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥५॥ बलिवरोचनिर्विष्णो यजते यज्ञमुत्तमम् । असमाप्ते ऋतौ तस्मिन् स्वकार्यमभिपद्यताम् ॥६॥ ये चैनमभि वर्तन्ते याचितार इतस्ततः । यच्च यत्र यथावच्च सर्व तेभ्यः प्रयच्छति ॥ ७॥ मेव समागम्य इहाश्रमे तपश्चरन्तं विष्णुमूचुः॥५॥ बलिरिति । यज्ञं यजते यज्ञं करोतीत्यर्थः । ओदनपाकं पचतीतिवत् । असमाप्त इति, समाप्तश्चेत् न स जेतुं शक्य इत्यर्थः। स्वकार्य देवकार्यम्, आश्रितकार्यस्य स्वकार्यत्वात्तथोच्यते। अभिपद्यताम् अभितः कात्स्न्येन सम्पाद्यताम् ।।६॥ ननु कथमसुरस्य यज्ञानुष्ठानम् ! “यस्यै देवतायै हविहीतं स्यात्तां ध्यायेद्वपदकरिष्यन् साक्षादेव तद्देवतां प्रीणाति" इतिश्रुतेः । ततद्देवध्यानपूर्वकं तत्तन्मन्त्रेण तत्त। इह वने तपश्चरणाय तपश्चरणार्थम् इह प्रदेशे उवासेति इहशब्दद्वयस्य निर्वाहः ॥२॥३॥ पतस्मिन्निति । समरूणान आवहप्रवहादिवायुगणसहितान् । कारयामास कृतवान ॥ ४॥ बलेरिनि । यजमानस्य यज्ञं कुर्वाणस्य । अग्निपुरोगमाः पुरोगमेनाग्निना सहिताः ॥५॥ बलिरिति । स्वकार्य देवकार्यम् ॥ ६॥ ये सिद्धाश्रमः । “ एष पूर्वाश्रमो राम बामनस्य महात्मनः । सिद्धाश्रम इति रूपातसिद्धो पत्र महाताः ॥ " इत्युक्तन् वामनाचमः । कथमिति चेत् , इहस्थो विष्णुरेव बामनोऽभवत, विष्णुवामनयोरभेदात् वामनाश्रम इत्युक्तम् । पूर्वाश्रम इत्यत्र बामनस्य पूर्वाश्रमः, विष्णुरूपेण स्वितस्याश्रम इत्यर्थः । यहा इह बने विष्णुः साक्षाद्विष्णुदेव, इह-दह बसत! तपसः चरणम् अनुष्ठानं येषां ते तपश्चरणाः, तेषां योगसिद्धयर्थम् अष्टाङ्गयोग सिद्धयर्थमुवास, अतएव पूर्वम् ऋषयः विष्णुमन्निधानादतोः मिदाः, अनन्तरमिरम्थो विष्णुः वामनरूपमास्थाय गतः, अनन्तरं विशो जातः, पुनरपि तदागमनात् महातपाः कश्यपः पूर्ववत् सिद्धोऽभवत् तस्मात् मिद्धाश्रम इति ॥२॥३॥ १ विभुतः । यज्ञ चकार मतिमानसुरेन्द्रो महाबालिः । इत्यधिकः । २ असमानतते । इति पाठान्तरम् । For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy