________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सम्प्राप्ता इत्यादिश्लोकद्वयम् । ते पूर्वोक्ताः। तव यज्ञस्य विनाय यत्राश्रमपदे सम्प्राप्ताः सा च तव याज्ञिकी क्रिया यत्र रक्षितव्या राक्षसाश्च वध्याः। तस्याश्रमस्य को देशः॥२२॥२३॥ एतदित्यर्धम् ॥२४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने अष्टाविंशःसर्गः ॥२८॥ अथ सिद्धाश्रमस्य नित्यं भगवत्सन्निधिमत्त्वेन दिव्यदेशत्वं तत्सन्निधाने पूर्वेषां सिद्धतपस्कत्वं भगवद्देशस्यैव वस्तव्यत्व
सम्प्राप्ता यत्र ते पापा ब्रह्माना दुष्टचारिणः । तव यज्ञस्य विनाय दुरात्मानो महामते ॥२२॥ भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी। रक्षितव्या क्रिया ब्रह्मन् मम वध्याश्च राक्षसाः॥२३॥ एतत्सर्व मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥२४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥२८॥ अथ तस्याप्रमेयस्य तदनं परिपृच्छतः । विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ 1 ॥ इह राम महाबाहो विष्णुर्देववरः प्रभुः। वर्षाणि सुबहून्येव तथा युगशतानि च । तपश्चरणयोगार्थमुवास सुमहातपाः ॥२॥ एष पूर्वा
श्रमो राम वामनस्य महात्मनः । सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ॥३॥ मित्येतत्प्रतिपादनमुखेन स्थाण्वाश्रमाद्वैलक्षण्यं दर्शयत्येकोनत्रिंशे-अर्थत्यादि । अप्रमेयस्य अचिन्त्यवैभवस्य, मानुषभावनया पूर्ववृत्तमज्ञातमिव पृच्छत इत्यर्थः । चतुर्थ्यथें षष्ठी ॥१॥ इहेति सार्द्धश्लोकः। तपश्चरणयोगार्थ तपश्चरणफलसिद्धयर्थम् । यद्वा तपश्चरणं च योगश्च तदुभयार्थम् । केचि दिह इहशब्दद्वयं पठन्ति । तदा इह वने तत्रापि इह प्रदेश इत्यर्थः॥२॥ एष इति । वामनस्य वामनरूपेणावतरिष्यतः। पूर्व विष्णुत्वेन रूपेणेह तप माश्रमपदमित्यवगच्छामि । कस्येदं सर्व शंसेत्यन्वयः ॥ २१ ॥ संप्राप्ता इत्यादि । यत्राश्रमपदे तब यज्ञस्य विनाय राक्षसाः संप्राप्ता भवन्ति, सा च याज्ञिकी क्रिया यत्र रक्षितव्या राक्षसाश्च वध्या यत्र तस्याश्रमस्य को देशः, किं स्थानं सर्व मे शंसेति पूर्वेणान्वयः ॥२२-२४॥ इति श्रीमहेश्वरतीर्थकृतायां श्रीरामायणतत्त्वदीपिका ख्यायो बालकाण्डव्याख्यायाम् अष्टाविंशः सर्गः॥२८॥ अथ तस्येत्यादि । तस्य रामस्य परिपृच्छतो वचनं श्रुत्वेति शेषः । व्याख्यातुम् उत्तरमिति शेषः ॥१॥ इहेनि।
मुनिभाव-इहेति सालोकद्वयम् । इह तपःसाधरणार्थम् इहोबासेति इहशब्दद्वयस्य निर्वाहः । विष्णुः कारणविष्णुः । बहुयुगशतानि इह बने । तपश्वरणं नाम तपोऽनुष्ठानम, योगो नाम अष्टाङ्गयोगः, उभयोरपि इहैव सिद्धपर्थमुवासेति शब्दयस्य निर्वाहः । भादराद्विरुक्तिर्वा । इह स्थितः विष्णुः तपः कृत्वा वामनरूपमास्थाय बलिं जिला इन्द्राय लोकान् दम्या इह सिदि सर्वकार्यसिद्धि प्राप्तः, अत एवं
७
For Private And Personal Use Only