________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सुरपतिः सुराध समपूजयन् ॥२६॥ सायेति । स्पष्टम् ॥२७॥ सुने इति । सर्वे वयमिति शेषः। स्नेहं दर्शय स्नेहकार्य प्रवर्तय ॥ २८॥ एतदेवाइ-1 प्रजापतेरिति ॥ २९ ॥ पात्रेति । अयमिति शेषः । अनुगमने शुश्रूषणे । धृतःस्थिरधीः ॥ ३० ॥ एवमिति । पुरस्कृत्य पूजयित्वा जग्मुः । सन्ध्या सायंसन्ध्या प्रवर्तते स्म ॥३१॥ तत इति । स्पष्टम् ॥ ३२॥ इहेति । तत् पूर्वोक्तम् ॥३३॥ विश्वामित्रेति । स्पष्टम् ॥३४॥ मुक्तेति । मुक्तशापं मुक्तोपद्रवम् ।
उवाच परमप्रीतः सहस्राक्षः पुरन्दरः। सुराश्च सर्व संहृष्टा विश्वामित्रमथाब्रुवन्॥२७॥ मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः। तोषिताः कर्मणानेन स्नेहं दर्शय राघवे ॥२८॥ प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् । तपोबलभृतो ब्रह्मन राघवाय निवेदय ॥ २९ ॥ पात्रभृतश्च ते ब्रह्मन् तवानुगमने धृतः । कर्तव्यं च महत्कार्य सुराणां राजसूनुना ॥३०॥ एवमुक्त्वा सुराः सर्वे जग्मुहृष्टा यथागतम् । विश्वामित्रं पुरस्कृत्य ततःसन्ध्या प्रवर्तते ॥३॥ ततो मुनिवरः प्रीतस्ताटकावधतोषितः। मूनि राममुपाघ्राय इदं वचनमब्रवीत् ॥ ३२ ॥ इहाद्य रजनी राम वसाम शुभदर्शन । श्वःप्रभाते गमिष्यामस्तदाश्रमपदं मम ॥३३॥ विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः । उवास रजनी तत्र ताटकाया वने सुखम् ॥ ३४ ॥ मुक्तशापं वनं तच्च तस्मिन्नेव तदाऽहनि । रमणीयं विवभ्राज यथा चैत्ररथं वनम् ॥३५॥ निहत्य तां यक्षसुतां सरामः प्रशस्यमानः सुरसिद्धसंघः । उवास तस्मिन मुनिना सहैव
प्रभातवेलांप्रतिबोध्यमानः॥३६॥ इत्यारे श्रीरामायणे वाल्मीकीये आदिकाव्य बालकाण्डे पडविंशः सर्गः ॥२६॥ तस्मिन्नहनि । तदेव तत्क्षण एव । चैत्ररथं कुबेरोद्यानम् ॥ ३५॥ निहत्येति । प्रतिबोध्यमानः, मुनिनति शेषः। कौसल्या सुप्रजारामन्येवं प्रबोधिताऽभूदि त्यर्थः । उपजातिवृत्तम् ॥३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्यान बालकाण्डव्याख्यान षडविंशः सर्गः ॥२६॥ मिति । भीमसङ्काशा भयङ्करामित्यर्थः ॥ २६ ॥२७ ।। मुने इति । तोषिताः । वयमिति शेषः । नेहम् अनुग्रहम् ॥ २८ ॥ प्रजापतरिति । निवंदन जापग्य ॥२९॥ पात्रेति । धृतः नियतः ॥ ३० ॥ एवमुनवेति । प्रवर्तते प्राप्ता ॥३१-३४॥ मुक्तशापमिति । मुक्तशाप मुक्तोपप्लवम् ॥ ३ ॥ निहत्येति । प्रभातवेला प्रतिबोध्यमानः मुनिनेति शेषः ।। ३६ ॥ इति श्रीमहेश्वरतीर्यविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां पशिः सर्गः ॥२६॥ १ भृशाश्वस्य । २ हनि । चम्पकाशोकपुनाममलिकायैः सुशोभितम् । चूतैश्च पनौः पूगैर्नालिकेत्र शोभितम् । वापीकृपतटाकैश दीधिकाभिरलतम । मलिका मफ्टैश्च मण्डपेनपशोभितम् । रम० इ०पाला
For Private And Personal Use Only