________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
स्पष्टम् ॥ ११॥ अगस्त्य इत्यर्द्धम् ॥ १२ ॥ पुरुषादीति । पुरुषादी मनुष्यभक्षिणी । त्वमिदं रूपं विहाय पुरुषादीत्यादिविशेषणयुक्ता भव । अथ ते. दारुणं क्रूरं रूपं शरीरम् अस्तु ॥१३॥ सैपेति । अगस्त्यचरितम्, तदानीमिति शेषः ॥१४॥ एनामिति । जहि नाशय ॥१५॥ न हीति । शापसंस्पृष्टां शापयुक्ताम् ॥१६॥ न हीति । ते त्वया। घृणा जुगुप्सा । कर्तव्यम्, कर्मेति शेषः ॥ १७॥ नृशंसमिति । नृशंसंरकर्म । सदोष सापवादं कर्म ।
पुरुषादी महायक्षी विरूपा विकृतानना । इदं रूपं विहायाऽथ दारुणं रूपमस्तु ते ॥ १३ ॥ सैषा शापकृतामर्षा ताटका क्रोधमूञ्छिता । देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ॥ १४॥ एनां राघव दुर्वृत्तां यक्षी परमदारुणाम् । गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ १५॥ न ह्येना शापसंस्पृष्टां कश्चिदुत्सहते पुमान् । निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥ १६॥ न हि त स्त्रीवधकृते घृणा कार्या नरोत्तम । चातुर्वर्ण्यहितार्थाय कर्तव्यं राज सूनुना ॥ १७॥ नृशंसमनृशंसं वा प्रजारक्षणकारणात् । पातकं वा सदोषं वा कर्तव्यं रक्षता सताम् ॥ १८॥ राज्य भारनियुक्तानामेष धर्मः सनातनः। अधा जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ॥ १९॥ श्रूयते हि पुरा शक्रो विरोचनसुतां नृप। टथिवीं हन्तुमिच्छन्ती मन्थरामभ्यमूदयत् ॥२०॥ विष्णुना च पुरा राम भृगुपत्नी दृढवता ।
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषदिता ॥२१॥ रक्षता राजपुत्रेण । प्रजारक्षणकारणाकर्त्तव्यम्॥१८॥राज्पति। सनातनः नित्यः। अधाम् अधर्मादनपेताम् । एतदेवाह धर्म इति ॥१९॥ स्त्रीवस्य । कर्तव्यत्वे इतिहासदयमाह-श्रूयत इत्यादिना । मन्थरां मन्थराभिधानाम् ॥२०॥ विष्णुनेति । काव्यमाता शुक्रमाता । इयं कथा मत्स्यपुराणे दर्शितास्वपुत्रे शुके देवशिक्षार्थ रुदसमीपे तपस्यति सति देवपीडिता असुराः शुक्रमातरं भृगुपत्रीं शरणमगच्छन् । सा चासुररक्षणार्थ देवान हन्तुमुद्युक्ता सदम् ॥८॥ सुन्द इति । निहते । अगस्त्येनेतिशेषः । प्रधर्षयितुं हन्तुम् ॥९॥१०॥ आपतन्तीमिति । स्पष्टोऽर्थः ॥ ११ ॥ १२ ॥ पुरुषादीत्यादौ राक्षसत्वं भज स्वेति चैतौ शब्दावनुषज्यते । यतः पुरुषादनादिगुणयुक्ता अतो राक्षसत्वं भजस्वेति शप्तवान । विहाय त्यक्त्वा ॥१३॥ सैषेति । अमर्षा असहमाना ॥ १४॥ १५॥ नेति । शापसंस्पृष्टा शापेन व्याप्ताम् ॥१६॥ न हीति । स्त्रीवधकृते स्त्रीवधकरणे । घृणा जुगुप्सा। न कार्या प्रजारक्षणकारणादित्युत्तरेणान्वयः॥ १७ ॥ नृशंसमिति
For Private And Personal Use Only