________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१०६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बलं धारयति ॥ २ ॥ विश्वामित्र इति । येन हेतुना बढोत्तरा भवति तं शृणु । तस्या वरदानकृतं वीर्य बलमस्ति अतोऽवलापि बलं धारयति ॥ ३ ॥ वरदानप्रकार माह पूर्वमित्यादि ॥ ४ ॥ पितामह इति । नाम प्रसिद्धौ ॥ ५ ॥ ददाविति । यक्षाय सुकेतवे ॥ ६ ॥ तामिति । विवर्द्धन्तीं विवर्द्धमानाम् । विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बेलोत्तरा । वरदानकृतं वीर्यं धारयत्यबला) बलम् ॥ ३ ॥ पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् । अनपत्यः शुभाचारः स च तेपे महत्तपः ॥ ४ ॥ पितामहस्तु संप्रीतस्तस्य यक्षपतेस्तदा । कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥ ५ ॥ ददौ नागसहस्रस्य बलं चास्याः पितामहः । न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥ ६ ॥ तां तु जातां विवर्द्धन्तीं रूपयौवनशालिनीम् । जंम्भपुत्राय सुन्दाय ददौ भार्या यश स्विनीम् ॥ ७ ॥ कस्यचित्त्वथ कालस्य यक्षी पुत्रमजायत। मारीचं नाम दुर्द्धर्ष यः शापाद्राक्षसोऽभवत् ॥ ८ ॥ सुन्दे तु निहते राम सांगस्त्यं मुनिपुङ्गवम् । ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥ ९ ॥ भक्षार्थं जातसंरम्भा गर्जन्ती साऽभ्यधावत ॥ १० ॥ आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः । राक्षसत्वं भजस्वेति मारीचं व्याजहार सः || ११ || अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ॥ १२ ॥
| भार्या ददौ ॥ ७ ॥ कस्यचिदिति । कस्मिंश्चित्काले गते सति । अजायत अजनयत् ॥८॥ शापप्रकारमा - सुन्दे त्विति । निहते, अगस्त्येनेति शेषः । प्रधर्षयितुं हन्तुम् इच्छति ऐच्छत् ॥ ९ ॥ भक्षेति । जातसंरम्भा स्वभर्तृवधजनितकोपा अतएव भक्षार्थमभ्यधावत । अर्द्धम् ||१०|| आपतन्तीमिति । वीर्याः श्रूयन्ते, अबला यक्षी नागसहस्रस्य बलं कथं धारयति केन कारणेन धारयति । पाठान्तरे-यदा यस्माद्यक्षी अल्पवीर्या श्रूयते तस्मादवला नागसहखवलं कथं धारयति केन कारणेन धारयति ॥ २ ॥ विश्वामित्र इति । अत्र बलमात्रेप्युत्तरत्वेन वक्तध्ये वीर्यस्याभिधानं वीर्यशौर्यादयोऽन्येपि गुणाः सन्तीति ज्ञापयितुम् ॥ ३ ॥ वरमदानमेव विवृणोति पूर्वमासीदित्यादिना ॥ ४-६ ॥ तामिति । विवर्द्धन्तीं विवर्द्धमानां भार्या भार्यात्वेन ददावित्यर्थः ॥ ७ ॥ कस्यचित्विति । दुर्धर्षे दुरा विषम० नदमिसंहितगुणत्रता पुत्रेणात्यन्तजनपीडा मवेदिति विचार्य पुत्रं न ददी ॥ ६ ॥
१ बलोत्कटा । २ । ३ अगस्त्यमृषिसत्तमम् ४ आपतन्तीं तु तां दृड्डा पुनस्तस्यास्तमात्मजम् । क्रुद्धः कृशानुस गयो भगवानभूत् । राक्षसत्वं । इति पाठान्तरम् ।
For Private And Personal Use Only
टी.बा.कां.
स० [२५
॥१०६॥