________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इत्यर्दम् ॥२६॥ वृत्तेति । अत्र य इति शेषः। यः प्रजाः नित्यं त्रासयते स मारीचो यस्याः पुत्रः सा यक्षी अभूदिति पूर्वेणान्वयः ॥ २७ ।। अस्तु ।। ताटका, किं ततः तत्राह-इमाविति ॥२८॥ सेयमिति । आवार्य आवृत्य । यतः यस्मिन्मार्गे ताटकायाः वनम् । अतएव मार्गेण गन्तव्यम् ॥२९॥ खेति । निष्कण्टकं निरुपद्रवम् ॥३०॥न हीति । ईदृशम् अतीव पुण्यम्, असह्यया इतरैरजेयया ॥३१॥ एतदिति । यथा येन प्रकारेण । दारुणं यथा
वृत्तबाहुमहावीयों विपुलास्यतनुर्महान् । राक्षसो भैरवाकारो नित्यं त्रासयतेप्रजाः॥२७॥ इमौ जनपदौनित्यं विना शयति राघव । मलदांश्च करूशांश्च ताटका दुष्टचारिणी ॥२८॥ सेयं पन्थानमावार्य वसत्यध्यर्द्धयोजने। अत एवं च गन्तव्यं ताटकाया वनं यतः॥२९॥स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् । मन्नियोगादिमं देशं कुरु निष्क ण्टकं पुनः॥३०॥ न हि कश्चिदिमं देशं शनोत्यागन्तुमीदृशम्। यक्षिण्या घोरया राम उत्सादितमसह्यया ॥३१॥ एतत्ते सर्वमाख्यातं यथैतद्दारुणंवनम् । यक्ष्या चोत्सादितं सर्वमद्यापिन निवर्तते ॥ ३२॥ इत्यार्षे श्रीरामा० वा.
आदिकाव्ये बालकाण्डे चतुर्विशःसर्गः ॥२४ ॥ अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् । श्रुत्वा पुरुषशार्दूलः प्रत्यु । वाच शुभां गिरम् ॥ १॥ अल्पवीर्या यदा याः श्रूयन्ते मुनिपुङ्गव । कथं नागसहस्रस्य धारयत्यबला बलम् ॥२॥ च उत्सादितं निर्जनीकृतं यथा चोत्सादनान निवर्त्तते तदेतत्सर्वमाख्यातमिति योजना ॥ ३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणि मञ्जीराख्याने बालकाण्डव्याख्याने चतुर्विशः सर्गः ॥२४॥ स्त्रिया अपि सर्वलोकविनाशिन्या वधे न दोष इत्याह पञ्चविंशे-अधेत्यादि । अप्रमेयस्य अप्रमेयप्रभावस्य ॥१॥ अल्पेति । यदा यस्मात्, यदायवादयो हेतावपि मुनिभिः प्रयुज्यन्ते । यस्माच्छ्यन्ते तस्मात् अबला स्त्री कथं नागसहयस्य गृह्यते ॥ २०-२४॥ कस्यचित् कस्मिंश्चित्काले ॥ २५-२८ ॥ सेयमिति । आवृत्य निरुध्य । अत एवेति । यतः यस्मिन्मार्गे ताटकाया वनम् अतस्ताटकानिरासात् पूर्व गन्तुमशक्यत्वान गन्तव्यमित्युक्तिः । अत एव च गन्तव्यमिति पाठे-यतः यस्मिन् मागें ताटकाया वनम् अत पवानेनैव मार्गेण गन्तव्यमित्यर्थः ॥२९॥३०॥ न हीनि । उत्सादितं विजनीकृतम् । अद्यापि न निवर्तते देशोपप्लवात् । पूर्वस्थितजन इति शेषः ॥ ३१ ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्व दीपिकाख्यायां बालकाण्डव्याख्यायां चतुर्विंशः सर्गः ॥२४॥ अथ तस्येति । अप्रमेयस्य अप्रमेयप्रभावस्य ॥१॥ अल्पेति । यदा यक्षास्सृष्टाः ते तदाप्रभृत्यल्प
१ महाशीर्षो । २ मावृत्य । ३ एव न गंतव्यं । ४ वक्षी श्रूयते इतिपा०। ५ बलम् । इत्युक्तवचनं श्रु-वा राघवस्यामितौजसः। हर्षयन अश्णया वाचा सलक्ष्मणमरिन्दमम् । इत्यधिकः कचित् ।
For Private And Personal Use Only