________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
प्रातर्दक्षिणाभिमुखा गङ्गा तेरुः। ततो गङ्गादक्षिणतीरे ताटकावनमिति ज्ञेयम् ॥ ११ ॥ स इति । सङ्काशत इति सङ्काशः, घोरसङ्काशं घोररूपमिति । यावत् । अविप्रहतम् अक्षुण्णम्, जनसञ्चाररहितमित्यर्थः ॥ १२॥ अहो इत्यादिश्लोकत्रयम् । झिल्लिका भूतलाद्यन्तरितकीटविशेषः । भैरवैःभयङ्करैः।। श्वापदैः क्रूरमृगैः । शकुन्तैः भासैः। “ शकुन्तौ भासपक्षिणी" इत्यमरः । शकुनैः पक्षिभिः । वाश्यद्भिः कुत्सितं शब्दायमानः । धवः अश्वकर्णः ककुभः मरुतिन्दुकः पाटलः इदं वनमेतादृशम् । अहो इदं वनं दारुणम् । किनु किनामकमित्यन्वयः ॥ १३-१५॥ तमिति । एतद्दारुणं वनं यस्य,
स वनं घोरसङ्काशं दृष्ट्वा नृपवरात्मजः । अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ॥ १२ ॥ अहो वनमिदं दुर्ग झिल्लिकागंणनादितम् । भैरवैः श्वापदैः पूर्ण शकुन्तैर्दारुणास्तैः ॥१३॥ नानाप्रकारैः शकुनैर्वाश्यद्भिर्भरवैः स्वनैः । सिंहव्याघ्रवराहेश्च वारणेश्वोपशोभितम् ॥ १४ ॥ धवाश्वकर्णककुभमरुतिन्दुकपाटलैः । सङ्कीर्ण बदरीभिश्च किं न्वेतद्दारुणं वनम् ॥ १५॥ तमुवाच महातेजा विश्वामित्रो महामुनिः । श्रूयतां वत्स काकुत्स्थ यस्यैतदारुणं वनम् ॥ १६ ॥ एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम । मलदाश्च करूशाश्च देवनिर्माणनिर्मितौ ॥ १७ ॥ पुरा
वृत्रवधे राम मलेन समभिप्लुतम् । क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ॥ १८॥ शिप्राणिनः स श्रूयतामिति योजना ॥१६॥ एताविति । स्फीती प्रवृद्धधनधान्यो । मलदाश्च करूशाश्च मलदकरूशनामधेयौ । अवयवबहुत्वादहुवचनम् ।
मत्स्याः पाञ्चाला इतिवत् । देवनिर्माणेन देवनिर्माणतुल्यनिर्माणेन निर्मिती, देवलोकसमसंस्थानावित्यर्थः ॥ १७॥ मलदकरूशसंज्ञानिमित्तमाहपुरेत्यादि । वृत्रवधे कृते सति, मलेन अशुचित्वेन क्षुधा बुभुक्षया च समभिप्लुतं व्याप्तम् इन्द्रं ब्रह्महत्या समाविशत् । ब्रह्महत्यावशेन मलक्षुधाविन्द्रस्या स वनमिति । अविमहतमाणिसधाराभावादविक्षुण्णम् ॥ १२॥ अहो इति । झिल्लिकाः कीटविशेषाः, श्वापदैः शार्दूलादिकरमृगैः । शकुन्तैः भासैः। दारुणारुतै णारावैः । वाश्यद्भिः कुत्सितं शब्दायमानः ॥ १३-१६ ॥ एताविति । स्फीतो समृडौ । मलदाश्च करूशाश्चेति बहुवचनम् । अहो दारा इतिवच्छब्दस्वभावकृतम् ।
१ गणसंयुतम् । २ कीर्ण । ३ वारुणस्वनैः । ४ विस्वकिशुक । इति पाठान्तरम् ।
For Private And Personal Use Only