________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सन्ध्याम् अहोरात्रयोः सन्धिम् । अत्यन्तसंयोगे द्वितीया। यथाई यथायोग्यम्, यथाशक्तीति यावत् । “सहस्रपरमां देवीं शतमध्यां दशावराम्" इति वचनात् । अजपन्, गायत्रीमिति शेषः॥२०॥ तत्रेति । आनीताः निद्रायै स्वाश्रमं प्रापिताः । कामाश्रमपदे कामदाहात्कामाश्रमनामकस्य पदे स्थाने ॥२१॥ कथाभिरिति । कथाभिः तदाश्रमवैभवपराभिः ॥२२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्ड व्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ एवं कामाश्रमपदं रामचरणनलिनविन्यासेन कृतार्थीकृत्य ताटकावनमपि निष्कल्मपीकर्तु रामं प्रापयति मुनि |
तत्रवासिभिरानीता मुनिभिः सुव्रतैः सह । न्यवसन सुसुखं तत्र कामाश्रमपदे तदा ॥२१॥ कथाभिरभिरामाभि रभिरामौ नृपात्मजौ । रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥ २२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये 10
आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥ २३॥ ततः प्रभाते विमले कृत्वाह्निकमरिन्दमौ । विश्वामित्र पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १॥ते च सर्वे महात्मानो मुनयः संशितव्रताः। उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रवन् ॥२॥ आरोहतु भवान्नावं राजपुत्रपुरस्कृतः। अरिष्टं गच्छ पन्थानं माभृत्कालविपर्ययः ॥३॥ विश्वामित्रस्तथे
त्युक्त्वा तानृषीनभिपूज्य च। ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥४॥ चतुर्विशे-तत इत्यादि । विमले सूर्योदय इत्यर्थः । नद्याः गङ्गायाः ॥ १॥ ते चेति । उपस्थाप्य आनाय्य ॥२॥ आरोहत्विति । राजपुत्राभ्यां पुर स्कृतः पूजितः। ताटकावधाभिप्रायेणाहुः अरिष्टमिति । अरिष्टं शुभं यथा भवति तथा। "अरिष्टं पापशुभयोः" इतिहलायुधः। कालविपर्ययः कालविलम्ब इतियावत्॥३॥विश्वामित्र इति।ततार तरितुं प्रवृत्तः। सरितं गङ्गी, सागरं गच्छत्तीति सागरङ्गमाम् । खशूप्रकरणे “गमेस्सुप्युपसङ्ख्यानम्" इतिखश॥४॥ विश्वामित्ररामलक्ष्मणा इति शेषः ॥ २०॥ तत्रवासिभिरिति । आनीताः स्वाश्रमं प्रापिताः । कामाश्रमपद इति प्रकरणपर्यालोचनया स्थाण्वाश्रमपद इत्येवोचित कामाश्रमपद इतीदं दृश्यते । तद्विचारणीयम् ॥२१॥२२॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां वालकाण्डव्याख्यायां त्रयोविंशः सर्गः॥२३॥ ततः प्रभात इति । नद्याः भागीरथ्याः॥ १॥ त इति । उपस्थाप्य आनाय्य ॥२॥ आरोहत्विति । अरिष्टं शुभं यथा भवति तथा गच्छेत्यर्थः ॥ ३॥ विश्वामित्र
For Private And Personal Use Only