________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirm.org
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भ. ॥१०॥
टी.बा.कां. स०२३
सन्ध्या प्रवर्तते । पूर्वा सन्ध्या दिवाकरमित रामदिवाकरं त्वां कौसल्या जनितवतीति भावः । यद्वा मातृवत्पूर्वसन्ध्यामप्युपलालयेति । यद्धा पूर्वा सन्ध्या प्रवर्तते आदित्यस्येव भवतोऽयं विरोधिनिरसनारम्भसमय इति । यद्धा पूर्वा सन्ध्या प्रवर्तते अज्ञानान्धकारो गतः, भगवत्साक्षात्कारों में जातः, अब मे सुप्र भातमिति । यदा जगतः सर्वस्य भगवदवतारोत्सवोद्रेककालो जातः । “अद्य मे सफलं जन्म सुप्रभाता च मे निशा। यदुन्निद्राब्जपत्राक्षं विष्णोद्रक्ष्याम्प मुखम् ॥” उत्तिष्ठ निद्राश्रीरवलोकिता, प्रबोधश्रियमप्यवलोकितुमिच्छामि । नरशार्दूल नरश्रेष्ठ, नरश्रेष्ठतया भवतापि सन्ध्योपास्या " यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः" इत्युक्तेः। उत्तिष्ठ नरशार्दूल आश्रितविरोधिनिरसनशीलस्य किं निद्रावकाशोप्यस्ति ? नरशार्दूल मयज्ञनिहिक ! उत्थान प्रयोजनमाइ कर्तव्यं देवमाह्निकम्, देवेन सर्वेश्वरेण विहितं नित्यकर्म कर्तव्यम् । यदा देवशन्दो भवदर्थकः । भवदीयमाह्निकं भवदाज्ञारूपं कर्म मया
तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ । सात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥३॥ कृताहिको महावीर्यो । विश्वामित्रं तपोधनम् । अभिवाद्यामिसंहृष्टौ गमनायाभितस्थतुः॥४॥ तौ प्रयातौ महावीयों दिव्यां त्रिपथगा नदीम् । ददृशाते ततस्तत्र सरय्वाः सङ्गमे शुभे ॥५॥ तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम् । बहुवर्षसहस्राणि तप्यतां परमं तपः॥६॥ तं दृष्ट्वा परमप्रीतौ राघवी पुण्यमाश्रमम् । ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥७॥
कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान । भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥ ८॥ कर्तव्यम्, तत्स्वीकुर्वित्यर्थः। यहा देवं देवाराधनभूतम् जातिकम्, मला निर्वयमेकसुत्यात्मकं कर्म यज्ञात्मकम्, कर्तव्यमित्यर्थः ॥२॥ तस्येति। परमोदारम्, परमगम्भीरमित्यर्थः। कृतोदको कृतार्थ्यप्रक्षेपौ। यदा कृतदेवर्षितर्पणी। जप्यत इति जपः तम् । गायत्रीमिति यावत् । तस्या एव परमत्वाद "नसावित्र्याः परं वयम्" इति वचमात् ॥३॥ कृतेति । अहि भवमालिकम् । “कालाह" कृतप्रातःकृत्यावित्यर्थः। सन्ध्योपासनब्रह्मयज्ञसमिदाधा। नानि प्रातःकृत्यानि । अभितस्यतुः अभिमुखं स्थिती॥४॥ताविति । ततः तस्माद्देशात् प्रवाती। तत्र प्रसिद्ध सरय्वाः सङ्गमे । त्रिपथगां गङ्गां नदी दशाते ॥५॥ तत्रेति । तत्र गङ्गासरवोः सङ्गमे, ददृशाते इत्यनुपज्यते । तप्यता तपताम्, कर्तरि यत् छान्दसः॥६॥ तमिति स्पष्टम् ॥७॥ कस्येति।
१ नृपात्मजौ । २ मतेजसाम्, भावितात्मनाम् । ३ वचः । कौतूहलाती धर्मको बीर्यवन्त तपोधनम | कस्याथ । इति पाठान्तरम।
१०२॥
For Private And Personal Use Only