________________
Shri Mahavir Jain Aradhana Kendra
आ.रा.भू. ॥ १०१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स० [२२
विद्येति । अधीयाने त्वयि भवेदिति शेषः । तेजःसमन्विते प्रभावसमन्विते ॥ १७ ॥ प्रदातुमिति । तव प्रदातुं त्वमेव सदृशी नान्य इति योजना || १८ || टी.वा.कां. एतदुपपादयति- काममिति । एते पूर्वोक्ताः सौभाग्यादयः । कामं प्रकामं त्वयि सन्ति । यद्यपि तथापि तपसा सम्भृते लब्धे एते विद्ये । त्वदुपदेशात् बहु रूपे लोके बहुधा विस्तृते भविष्यतः ॥ १९ ॥ तत इति । जलं स्पृष्ट्वा, आचम्येत्यर्थः । भावितात्मनः ध्यातात्मस्वरूपात् ॥ २० ॥ विद्येति । विद्यासमु दितः समुदितविद्यः, लब्धविद्य इति यावत् ॥ २१ ॥ गुर्विति । गुरुकार्याणि गुरौ कर्तव्यानि पादसंवाहनादीनि कुशिकात्मजे नियुज्य कृत्वा, त्रयः स्वयं विद्याद्वयमधीयाने यशश्चाप्यतुलं त्वयि । पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥ १७ ॥ प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक ॥ १८ ॥ कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः । तपसा सम्भृते चैते बहुरूपे भविष्यतः ॥ १९ ॥ ततो रामो जलं स्ष्टष्ट्वा प्रहृष्टवदनः शुचिः । प्रतिजग्राह ते विद्ये महर्षभावितात्मनः ॥ २० ॥ विद्यासमुदितो रामः शुशुभे भूरिविक्रमः । सहस्ररश्मिर्भगवान् शरदीव दिवाकरः ॥ २१ ॥ गुरुकार्याणि सर्वाणि नियुज्य कुशिका त्मजे । ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥ २२ ॥ दशरथनृपसूनुसत्तमाभ्यां तृणशयनेऽनुचिते तदोषिताभ्याम् । कुशिकसुतवचोनुलालिताभ्यां सुखमिव सा विवभौ विभावरी च ॥ २३ ॥ इत्यार्षे श्रीरामा • बालकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ तौ चेति त्रयः । तत्र सरय्वां सरयूतीरे सुसुखमूषुः । यद्वा एतदर्धस्य पूर्वेणान्वयः । कुशिकात्मजे गुरुकार्याणि नियुज्य विद्यासमुदितो रामः शुशुभ | इति ॥ २२ ॥ दशरथेति । चतुर्थ्यर्थे “बहुलं छन्दसि " इति षष्ठ्यर्थे चतुर्थी । दशरथपुत्रयोर्विभावरी सुखमिव विबभौ प्रभातेत्यर्थः । इवशब्दो वाक्या लङ्कारे । अत्र रामाय विद्यादानं लक्ष्मणस्याप्युपलक्षणम् । पश्चाद्रामो वा लक्ष्मणायोपदिदेशेति बोध्यम् । पूर्ववत्पुष्पिताग्रावृत्तम् ॥ २३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥
विद्येति । विद्याद्वयमधीयाने । त्वयीति शेषः । भवेदित्यध्याहार्यम् । पितामहसुते विद्ये ॥ १७ ॥ प्रदातुमिति । तव त्वमेव सदृशः ॥ १८ ॥ काममिति । एते पूर्वोक्ताः सौभाग्याद्यो गुणाः । तपसा नियमेन । संभृते बहुरूपे बहुफलप्रदे ॥ १९ ॥ २० ॥ विद्यासमुदित इत्यादि सार्द्धश्लोकमेकं वाक्यम् । गुरुकार्याणि गुरु ||विषयकार्याणि पादोपसंग्रहणादीनि कुशिकात्मजे नियोज्य कृत्वा, विद्यासमुदितः शुशुभे इति सम्बन्धः ॥ २१ ॥ २२ ॥ दशरथेति । नृपसूनुसत्तमाभ्यामिति षष्ठयर्थे चतुर्थी । विबभौ विभातेत्यर्थः ॥ २३ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां द्वात्रिंशः सर्गः ॥ २२ ॥
For Private And Personal Use Only
॥ १०१ ॥