________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
चर्मकृताङ्कलित्राणं ययोस्तौ तथा । गोधा इस्तत्राणमित्येके । चुतिः सामान्यशोभा, श्रीः विशेषशोभा, शोभमेतां व्यत्ययेन लङथें लोट् । विश्वामित्रमनु यातो रामलक्ष्मणौ स्थाणुमनुवातौ कुमाराविनाशोभेतामित्यर्थः । स्थाणुं रुई, पानकी पाच कात्प्रादुभूती स्कन्दविशाखी "ततोऽभवञ्चतुमूर्तिः क्षणेन भग वान् प्रभुः । स्कन्दो विशालः शाकश्च नैगमेषश्च पृष्ठतः ॥” इति भारतातेः । अभिम्त्वम् अचिन्त्यवैभवम् ||८||९|| अध्यति । अधिकमर्द्ध यस्मिन् तदध्यर्द्ध, अध्यर्द्ध च तत् योजनं च अध्यर्द्धयोजनम्, सार्द्धयोजनमितियावत् । तावद्गमनेन नावोः क्षुतदपीडा माभूदिति तन्निवर्तक विद्याश्योपदेशाम अध्यर्द्धयोजनं गत्वा सरय्या दक्षिणे तटे। रामेति मधुरं वाणीं विश्वामित्रोऽभ्यभाषत ॥ १० ॥ गृहाण वत्स सलिलं माभूत् कालविपर्ययः । मन्त्रग्रामं गृहाण त्वं बलामतिवलां तथा ॥ ११॥ न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः । न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः ॥ १२ ॥ न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन । त्रिषु लोकेषु वै राम न भवेत् सदृशस्तव ॥ १३ ॥ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्वये । नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥ १४ ॥ एतद्विद्याये लब्धे भविता नास्ति ते समः । बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ १५ ॥ क्षुत्पिपासे न ते राम भविष्येते नरोत्तम । बलामतिबलां चैव पठतः पथि राघव ॥ १६ ॥
आह्वयते - रामेति । मधुरां भक्तिपूर्वकोञ्चारणात् रामनाम्रः श्रवणानन्दकरत्वाच्च ॥ १० ॥ गृद्दानेति । सलिलं गृहाण, बुद्धाचमनं कुषित्यर्थः । विप योऽतिक्रमः, विलम्ब इति यावत् । मन्त्रग्रामं मन्त्रसमष्टिरूपाम्, इदं बलातिबलयोः प्रत्येकं विशेषणम् ॥ ११ ॥ कलमा-न श्रम इत्यादि । विपर्ययः अन्यथाभावः, भविष्यतीतिशेषः । सुप्तं, त्वामितिशेषः ॥ १२ ॥ न बाह्वोरिति । बलातिबलां च पठतः, तवेतिशेषः । अस्सि, स्वादित्यर्थः । त्रिष्वित्यत्र सर्वगुणैः निःसीमत्वमुच्यते ॥ १३ ॥ नेति । सौभाग्ये सौन्दयें । दाक्षिण्ये सामध्ये बुद्धिनिश्वये बुखचा कार्यनिधये समः, भवतीति शेषः ॥ १४ ॥ सामान्येनोपसंहरति- एतदिति । ते समः नास्ति, न भविता चेत्यर्थः । मातरौ कारनभूते ॥ १५ ॥ शुदिति । ते भविष्येते भविष्यतः ॥ १६॥ अध्यर्धयोजनम् अर्धाधिकयोजनम्, षट्क्रोशमिति यावत् ॥ १० ॥ गृहाणेति । कालस्य पर्ययः अतिक्रमः । ममा महम् । बलातिबलारख्या विद्य गृहाणेति सम्बन्धः । विपर्ययः अन्ययाभावः ॥ ११ ॥ न श्रम इति । प्रमतं ममादयुक्तम्, कार्यान्तरव्यासङ्गादिना असावधानमिति याद ॥ १२ ॥ नेति । ज्ञाने सूक्ष्मार्थदर्शने । बुद्धिनिश्वये बुद्धचा कार्यनिश्चये ॥ १३ ॥ १४ ॥ एतदिति । सर्वज्ञानस्य मातरी सर्वमन्त्रजन्यज्ञानस्य कारणभूतौ ॥ १५ ॥ क्षुदिति ॥ १६ ॥ १ भ्रमो । २ गृहाण सर्वलोकस्य गुपये रघुनन्दन । विद्या । इति पाठान्तरम् ।
For Private And Personal Use Only