________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
॥९
॥
न शक्ष्यन्ति धर्षितुमिति शेषः । ज्वलनेन अग्निचक्रेण । 'अमृतमग्निचक्रेण सुरक्षितम् ' इति भारते व्यक्तम् ॥ ९॥ राज्ञो भयनिवृत्तये विश्वामित्र दी.बा.का माहात्म्यमाह-एष इति । परायणं परमस्थानम् । एतत्सदृशः कोऽपि तपस्वी नास्तीत्यर्थः ॥१०॥ एप इति । अवानिति पुंल्लिङ्गत्वमापम् । सचराचर।। इत्यनेन सामस्त्यं गम्यते । एनम् एतवगतमस्रसमूहम् ॥१३॥ केचनेत्युक्तं प्रपञ्चयति-न देवा इति ॥१२॥ सर्वाविदितं कथमयं वेत्तीत्यत्राह-सवैति ।
एष विग्रहवान धर्म एष वीर्यवतां वरः । एष बुद्धयाधिको लोकेतपसश्च परायणम् ॥१०॥ एषोऽवान् विविधान् वेत्ति त्रैलोक्ये सचराचरे । नैनमन्यः पुमान वेत्ति न च वेत्स्यन्ति केचन ॥ ११॥ न देवा ऋषयः केचिन्नासुरा न च राक्षसाः। गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः॥१२॥ सर्वास्त्राणि कृशाश्वस्य पुत्राः परमंधार्मिकाः। कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥ १३ ॥ तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः । नैकरूपा महावीर्या दीप्ति
मन्तो जयावहाः॥१४॥ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१५॥ कृशाश्वः प्रजापतिष्वेकः । परमधार्मिकाः परमधर्मनिष्टाः, पापिनमस्पृशन्त इत्यर्थः । दत्ताः कृशाश्वेन । प्रशासति प्रशास्ति, अयमिति शेपः ॥१३॥ मित्राशस्त्यभुक्त्वा मातृप्राशस्त्यमाह-तेऽपीति । प्रजापतिः दक्षः। तस्य सुतयोः कन्ययोः सुताः ॥ १४॥ के प्रजापति ना जया चेति । न केवलं विश्वामित्रकृतसंरक्षणेनैवास्य रघुनाथस्य दुष्पसहत्वम्, किन्तु स्वरूपपर्यालोचनयापीत्याह-एष विग्रहवानिति। एषःरामभद्रः वीर्यवतांवर इत्यनेन सहज वीर्य तस्यैवोक्तं भवति । एष विद्याधिक इत्यनेन सहजज्ञानशक्तिः प्रतिपादिता । परायणं परमप्राप्यम् तपसः विविदिषासाधनत्वात् “तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुतेः । एषोऽस्त्रान विविधान् वेत्तीत्यनेन सर्वेश्वरस्य भूतलावतारसमये तदीयानि दिव्यायुधान्यपि सहवाग तानीति गम्यते । तथा च वक्ष्यति-"शरा नानाविधाकारा धनुरायतविग्रहम् । अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः ॥” इति । “नैनमन्यः पुमान् वेति" इत्यत्र" सहेव सन्तं न विजानन्ति देवाः" इत्यादिश्रुतिः प्रमाणम् । 'नच वेत्स्यन्ति' इत्यनेन न विदुश्चेति यम्यते । यद्वा एवं सहजप्रभावे वर्णितेऽपि पुत्र dबुद्धचा तिरोहितरघुनाथप्रभावापरिज्ञानात दशरथस्य प्रत्ययो नोत्पद्यत इति विचार्य राज्ञो भयनिवृत्तिं राघवस्य भविष्यच्छ्याप्राप्तिं च हृदि निधाय गोतुर्विधा मित्रस्यापि रक्षणसामर्थ्यमुपपादयितुमाह एष विग्रहवानित्यादिना । एषः विश्वामित्रः । देवादयोऽपि न वेत्स्यन्तीति योजना ॥ १०-१२ ॥ सर्वास्त्राणीति । प्रशासति प्रशास्तीत्यर्थः । तदा दत्ताः शिवेनेति शेषः ॥ १३॥ तेऽपीति । प्रजापतिसुतासुताः प्रजापतिसुते दक्षकन्यके तयोःसुताः ॥ १४॥ जयेति । ते सुते सुवाते॥१५॥
१ भृशाश्वस्य । २ परमदुर्जयाः । ३ प्रजापतिमुतः समाः । इति च पाठान्तरम् ।
For Private And Personal Use Only