________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा० स०
DAAN
सत्तमः ॥ तदर्पकमिदंपुण्यकाव्यंसुश्राव्यमुत्तमम् ॥४६॥ श्रवणात्पठनाद्वापि सर्वपापविनाशकृत् ॥ यस्यात्रसुरसेप्रीतिर्वर्ततेभक्तिसंयुता ॥४७॥ सएवकृत
माहा कृत्यश्वसर्वशास्त्रार्थकोविदः॥ तदर्जितंतुतत्पुण्यं तत्सत्यंसफलंद्विजाः॥४८॥ यदर्थे श्रवणेप्रीतिरन्यथानहिवर्तते ॥ रामायणपराये तुराननामपरायणाः॥४९॥ अ. ५ तएवकृतकृत्याश्वघोरेकलियुगेद्विजाः॥ नवम्यहनिशृण्वंतिरामायणकथामृतम् ॥५०॥ तेकृतार्थामहात्मानस्तेभ्योनित्यं नमोनमः ॥ रामनामवनामवनामव ममजीवनम् ॥५१॥ संसारविषयांधानानराणांपापकर्मणाम् ॥ कलौनास्त्येवनास्त्येवनास्त्येवगतिरन्यथा ॥५२॥ सूत उवाच ॥ एवंसनत्कुमारस्तुनारदेन महात्मना । सम्पकप्रबोधितःसद्यःपरांनिर्वृतिमापह ॥५३॥ तस्माच्छ्वातुविद्रा रामायणकथामृतम् ॥ प्रयाति परमंस्थानंपुनरावृत्तिवर्जितम् ॥५४॥ घोरेकलियुगेप्राप्तेरामायणपरायणाः ॥ समस्तपापनिर्मुक्तायास्यंतिपरमपदम् ॥५५॥ तस्माच्छृणुध्वंविरेंद्रारामायणकथामृतम् ।। नवम्यहनिश्रोतव्यं सर्व पापप्रमोचकम् ॥५६॥ श्रुत्वाचैतन्महाकाव्यवाचकंयस्तु पूजयेत् ॥ तस्यविष्णु प्रसन्नःस्याच्छ्यिासह द्विजोत्तमाः ॥५७॥ वाचकेप्रीतिमापन्ने ब्रह्म विष्णुमहेश्वराः॥ प्रीताभवंतिविपेंद्रानात्र कार्याविचारणा ॥५८॥ रामायणवाचकायगावोवासांसि कांचनम् ॥ रामायणपुस्तकं च दद्याद्वित्तानुसारतः। ॥५९॥ तस्यपुण्यफलंवक्ष्येशृणुध्वं सुसमाहिताः ॥ नबातेग्रहास्तस्य भूतोतालकादयः ॥६० ॥ तस्यैवसर्वश्रेयांसिवर्धतेचरितेश्रुते ॥ नचाग्नि बर्बाधतेतस्यचौरादेर्नभयंतथा ॥ ६१॥ कोटिजन्मानितैःपापैःसद्यएवविमुच्यते ॥ सप्तवंशसमेतस्तुदेहांतेमोक्षमाप्नुयात् ॥६२॥ इत्येतद्वःसमाख्यातनारदेन प्रभाषितम् । सनत्कुमारमुनयेपृच्छतेभक्तितःपुरा ॥ ६३ ॥ रामायणमादिकाव्यंसर्ववेदार्थसंमतम् ॥ सर्वपापहरंपुण्यंसर्वदुःखनिबर्हणम् ॥ ६४ ॥ समस्त पुण्यफलदेसर्वयज्ञफलपदम् ॥ येपठंत्यत्रविबुधाः श्लोकंश्लोकार्धमेववा ॥६५॥ नतेषांपापबंधस्तु कदाचिदपिजायते ॥ रामार्पितमिदंपुण्यंकाव्यंतुसर्व कामदम् ॥६६॥ भक्त्या शृण्वंतिगायंतितेषांपुण्यफलंशृणु ॥ शतजन्मार्जित पापैःसद्यएवविमोचिताः ॥ ६७॥ सहस्रकुलसंयुक्ताःप्रयांतिपरमपदम् ॥ कितीर्थगोंप्रदानैर्वाकिंतपोभिःकिमध्वरैः ॥ ६८॥ अहन्यहनिरामस्यकीर्तनंपरिशृण्वताम् ॥ चैत्रेमाघेकार्तिके चरामायणकथामृतम् ॥ ६९॥ नवम्यहनि श्रोतव्यंसर्वपापैः प्रमुच्यते ॥ रामप्रसादजनकरामभक्तिविवर्धनम् ॥ ७० ॥ सर्वपापक्षयकरंसर्वसंपद्विवर्धनम् । यस्त्वेतच्छृणुयाद्वापिपठेद्वासुसमाहितः॥M सर्वपापविनिर्मुक्तोविष्णुलोकंसगच्छति ।। ७१ ॥ इति श्रीस्कदपुराणे उत्तरखण्डे श्रीमद्रामायणमाहात्म्ये नारदसनत्कुमारसंवादे पंचमोऽध्यायः॥५॥
॥ इति श्रीवाल्मीकीयरामायणमाहात्म्यं समाप्तम् ॥
For Private And Personal Use Only