________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
चसत्तमः ॥ १५ ॥ चांडालान्पतितांश्चैववाङ्मात्रेणापिनालपेत् ॥ नास्तिकान्भिन्नमर्यादानिंदकानपिशुनांस्तथा ॥ १६॥ रामायणवतधरोवाइमात्रेणापि
नालपेत् ॥ कुंडाशिनंतापकं चतथादेवलकाशिनम् ॥ १७॥ भिषजंकाव्यकारंदेवाद्विजविरोधनम् ॥ परान्नलोलुपंचैव परस्त्रीनिरतंतथा ॥ १८॥ रामा रायणव्रतधरोवाङमात्रेणापिनार्चयेत् । इत्येवमादिभि शुद्धोवसन्सर्वहितेरतः ॥ १९ ॥ रामायणपरोभूत्वापरांसिद्धिंगमिष्यति ॥ नास्तिगंगासमंतीर्थनास्ति मातृसमोगुरुः ॥ २० ॥ नास्तिविष्णुसमोदेवोनास्तिरामायणात्परम् ॥ नास्तिवेदसमंशास्त्रंनास्तिशांतिसमंसुखम् ॥ २१॥ नास्तिसूर्यसमंज्योतिनास्ति रामायणात्परम् ॥ नास्तिक्षमासमंसारंनास्तिकीर्तिसमंधनम् ॥ २२ ॥ नास्तिज्ञानसमोलाभो नास्तिरामायणात्परम् ॥ तदंतेवेदविदुपेदद्याच्चसहदक्षि णम् ॥ २३ ॥ रामायणपुस्तकंचवस्त्राण्याभरणानिच ॥ रामायणपुस्तकंयोवाचकायप्रदापयेत् ॥२४॥ सयाति विष्णुभवनंयत्रगत्वानशोचति ॥ नवाहानि फलंकर्तुःशृणुधर्मविदांवर ॥ २५ ॥ पंचम्यहनिचारभ्यरामायणकथामृतम् ॥ कथाश्रवणमात्रेणसर्वपापैः प्रमुच्यते ॥ २६ ॥ यदिद्वयंकृतंतस्यपुंडरीक फलंलभेत् ॥ व्रतधारीतुसततंयः कुर्यात्सजितेंद्रियः ॥२७॥ अश्वमेघस्ययज्ञस्यद्विगुणंफलमश्नुते ॥ चतुःकृत्वकृतयेनपराकमुनिसत्तमाः ॥ २८ ॥ सलभेत्परमं पुण्यमनिष्टोमाष्टसंभवम् ॥ पंचकृत्वोत्तमिदंकृतंयेनमहात्मना ॥२९॥ अत्यग्निष्टोमजंपुण्यद्विगुणंप्राप्नुयान्नरः ॥ एवंवतंचपकृत्वाकुयों वस्तुसमाहितः ॥३०॥ अग्निष्टोमस्ययज्ञस्यफलमष्टगुणंभवेत् ॥ व्रतधारीतुधर्मात्मासप्तकृत्वस्तथा लभेत् ॥३१॥ अश्वमेधस्ययज्ञस्यफलमष्टगुणंभवेत् ॥ नारीवापुरुषःकुर्यादष्टकृत्वोमुनीश्वराः ॥ ३२ ॥ अश्वमेधस्ययज्ञस्यफलंपंचगुणलभेत् ॥ नरोरामपरोवापिनवरात्रंसमाचरेत् ॥ ३३ ॥ गोमेघयज्ञपुण्यं सलभेत्रिगुणनरः॥ रामायणंतु यः कुर्याच्छांतात्मा नियतेंद्रियः ॥३४॥ सयाति परमानंदयत्रगत्वानशोचति ॥रामायणपरानित्यंगंगास्नानपरायणाः ॥३५॥ धर्ममार्गप्रवक्तारोमुक्ताएवनसंशयः॥ यतीनांब्रह्मचारीणामाचारीणांच सत्तमः॥३६ ॥ नवम्यहनिश्रोतव्याकथारामायणस्यच ॥ श्रुत्वानरो रामकथामति दीप्तोतिभक्तितः॥३७॥ ब्रह्मणःपदमासाद्यतत्रैव परिमुच्यते ॥श्राव्याणांपरमंश्राव्यपवित्राणामनुत्तमम् ॥३८॥ दुःस्वप्ननाशनं धन्यंश्रोतव्यंयत्नतम्ततः॥ नरोऽवश्रद्धयायुक्तःश्लोकं श्लोकार्धमेव वा ॥३९॥ पठते मुच्यते सद्योयुपपातककोटिभिः ॥ सतामेवप्रयोक्तव्यंगुह्याद्ह्यतमं यतः॥४०॥ वाचयेद्रामभावेन पुण्यक्षेत्रेचसंसदि।। ब्रह्मद्वेषरतानांचदंभाचाररतात्मनाम्॥४॥ लोकानां बकवृत्तीनांनब्यादिदमुत्तमम्॥ त्यक्तकामादिदोषाणांरामभक्तिरतात्मनाम्॥४२॥ गुरुभक्तिरतानांचवक्तव्यं मोक्षसाधनम् ॥ सर्वदेवमयोरामःस्मृतश्चार्तिप्रणाशनः ॥४३॥ सद्भक्तवत्सलोदेवोभक्त्यातुष्यतिनान्यथा ॥ अवशेनापियन्नाना कीर्तितोवास्मृतोऽपिवा॥४४॥ विमुक्तपातकःसोऽपिपरमंपदमश्नुते ॥ संसारघोरकांतारदावाग्निर्मधुसूदनः ॥ ४५ ॥ स्मर्तृणांसर्वपापानि नाशयत्याशु
For Private And Personal Use Only