________________
Shri Mahavir Jain Aradhana Kendra
वा० रा०
॥ ५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चेदमथाब्रवीत् ॥ ३३ ॥ उत्तक उवाच ॥ साधुसाधु महाप्राज्ञमतिस्तेविमलोज्ज्वला ॥ यस्मात्संसारदुःखानांनाशोपायमभीप्सति ॥ ३४ ॥ चैत्रमासंसि ते पक्षेकथारामायणस्यच ॥ नवाह्नाकिलश्रोतव्याभक्तिभावेनसादरम् || ३५ || यस्यश्रवणमात्रेणसर्वपापैः प्रमुच्यते ॥ तस्मिन्क्षणेक लिकोऽसौलुब्धकोवीत कल्मषः ॥ ३६ ॥ रामायणकथां श्रुत्वासद्यः पंचत्वमागतः ॥ उत्तंकः पतितंवीक्ष्यलुब्धकंतंद्यापरः ॥ ३७ ॥ एतदृष्ट्वा विस्मितश्च अस्तौपत्किमलापतिम् ॥ कथांरामायणस्यापिश्रुत्वाचवीतकल्मषः ॥ दिव्यंविमानमारुह्यमुनिमेतदथात्रवीत् ॥३८॥ कलिक उवाच ॥ उत्तकमुनिशार्दूलगुरुस्त्वंममसुव्रत || विमुक्त स्त्वत्प्रसादेनमहापातकसंकटात् ॥ ३९ ॥ ज्ञानं स्वदुपदेशान्मे संजातंमुनिसत्तम ॥ तेनमेपापजालानिविनष्टान्यतिवेगतः ॥४०॥ रामायणकथां श्रुत्वाममत्व मुक्तवान्मुने । प्रापितोऽस्मित्वयायस्मात्तद्विष्णोः परमपदम् ॥ ४१ ॥ त्वयाऽहंकृतकृत्योऽस्मिगुरुणाकरुणात्मना ॥ तस्मान्नतोऽस्मितेविद्वन्यत्कृतंतत्क्षम स्वमे ॥ ४२ ॥ इत्युक्त्वादेवकुसुमैर्मुनिश्रेष्ठमवाकिरत् ॥ प्रदक्षिणात्र यंकृत्वानमस्कारंचकारसः ॥ ४३ ॥ ततो विमानमारुह्य सर्वकामसमन्वितम् ॥ अप्सरो | गणसंकीर्ण प्रपेदेहरिमंदिरम् ॥ ४४ ॥ तस्माच्छृणुध्वंविप्रद्राः कथांरामायणस्यच ॥ चैत्रमासे सितेपक्षे श्रोतव्यंचप्रयत्नतः ॥ ४५ ॥ नवाह्नाकिलरामस्य रामायणकथामृतम् ॥ तस्मादृतुषु सर्वेषु हितकृद्धरिपूजकः ॥ ४६ ॥ ईप्सितंमनसा यद्यत्तत्तदाप्नोत्यसंशयम् ॥ सनत्कुमारैर्यत्पृष्टंतत्सर्वगदितंमया ॥४७॥ रामायणस्यमाहात्म्यंकिमन्यच्छ्रोतुमर्हसि ॥४८॥ इति श्रीस्कंद ० उत्तरखण्डे नारदसन • रामायण ० चतुर्थोऽध्यायः ॥ ४ ॥ सूत उवाच ॥ रामायणस्यमाहात्म्यं श्रुत्वाप्रीतीमुनीश्वरः ॥ सनत्कुमारः पप्रच्छनारदमुनिसत्तमम् ॥ १॥ सनत्कुमार उवाच ॥ रामायणस्यमाहात्म्यंकथितं वोमुनीश्वराः। इदानी श्रोतुमिच्छामि | विधिरामायणस्यच ॥ २ ॥ एतदपि महाभागमुनेतत्त्वार्थकोविद || कृपयापरयाविष्टोयथावद्वक्तुमर्हसि ॥ ३ ॥ नारद उवाच ॥ रामायणविधिंचैव शृणुध्वं । सुसमाहिताः ॥ सर्वलोकेषुविख्यातं स्वर्गमोक्षविवर्धनम् ॥ ४ ॥ विधानं तस्यवक्ष्यामि शृणुध्वं गदितंमया ॥ रामायणकथां कुर्वे भक्तिभावेनभावितः ॥ ५ ॥ येनचीर्णेनपापानां कोटिकोटिः प्रणश्यति ॥ चैत्रेमाघे कार्त्तिकेच पंचम्यामपिचारभेत् ॥६॥ संकल्पंतुततः कुर्यात्स्वस्तिवाचनपूर्वकम् ॥ नवस्वहःसुश्रोतव्यं । रामायणकथामृतम् ॥ ७ ॥ अद्यप्रभृत्य रामशृणोमित्वत्कथामृतम् ॥ प्रत्यहं पूर्णतामेत्तव रामप्रसादतः ॥ ८ ॥ प्रत्यहंदंतसंशुद्धिह्यपामार्गस्य | शाखया ॥ कृत्वास्त्रायात्तु विधिवद्रामभक्तिपरायणः । स्वयंचबंधुभिः सार्धं शृणुयात्प्रयतेंद्रियः ॥ ९ ॥ स्नानंकृत्वायथाचारंदन्तधावनपूर्वकम् ॥ शुक्लांबर धरः शुद्धोगृहमागत्यवाग्यतः ॥ १० ॥ प्रक्षाल्यपादावाचम्यस्मरन्नारायणंप्रभुम् ॥ नित्यदेवार्चनंकृत्वा पश्चात्संकल्पपूर्वकम् ॥ ११॥ रामायणपुस्तकंच अर्चये द्भक्तिभावतः | आवाहनासनाद्यैश्व गंधपुष्पादिभिर्वती ॥ १२ ॥ ॐ नमोनारायणायेतिपूजयेद्भक्तितत्परः ॥ एकवारंद्विवारंच त्रिवारंवापिशक्तितः ॥ १३ ॥ || होमं कुर्यात्प्रयत्नेनसर्वपापनिवृत्तये ॥ एवं यः प्रयतः कुर्याद्वामायणविधितथा ॥ १४ ॥ सयातिविष्णुभवनं पुनरावृत्तिवर्जितम् ॥ रामायणव्रतधरोधर्मकारी
For Private And Personal Use Only
माहा०
अ० ५.
॥ ५॥