________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsurl Gyanmandir
वा.रा.भू.
118.CH
तस्य रावणस्य ॥२३॥ स इति । अल्पभाग्यस्येति, त्वन्नियोगाकरणेनेति शेषः । प्रसादुकरणे हेतुः देवतमिति ॥ २२॥ देवेति । रावणसङ्काम टी.वा.का. मुख्यं न दोषाय, सर्वाशक्यत्वादित्याशयः ॥२३॥ स हीति, अईवयम् । वीर्यमादत्ते स्वीकरोति, नाशयतीत्यर्थः। तस्य बलैः मारीचादिभिः॥२४॥ कथमिति । कथमिति प्रवे। राक्षसान् प्रतीति शेषः ॥२५॥ अथेति । अथ शत्रुस्वरूपज्ञानानन्तरं सुन्दोपसुन्दयोः सुतो मारीचसुबाडू, सुन्दपुत्रःमारीचः स. उपसुन्दपुत्रः सुबाहुः। पुत्रकम्, अनुकम्पायां कन् । अतो न दास्यामीत्युपस्कार्यम् ॥२६॥ मारीच इति । स्पष्टम् ॥२७॥ उत्तरसर्थमन्ते संगृह्णाति
सत्वं प्रसाद धर्मज्ञ कुरुष्व मम पुत्रके। मम चैवाल्पभाग्यस्य दैवतं हि भवान् गुरुः ॥२२॥ देवदानवगन्धर्वा यक्षाः पतगपन्नगाः।न शक्ता रावणं सोडु किं पुनर्मानवा युधि ॥ २३ ॥ स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः । तेन चाहं न शक्नोमि संयोद्धं तस्य वा बलैः। सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः ॥ २४ ॥ कथमप्यमरप्रख्यं संग्रामाणामकोविदम् । बालं मे तनयं ब्रह्मन् नैव दास्यामि पुत्रकम् ॥२५॥ अथ कालोपमो युद्धे सुतो सुन्दोप सुन्दयोः । यज्ञविघ्रकरौ तौ ते नैव दास्यामि पुत्रकम् ॥ २६ ॥ मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ । तयो रन्यतरेणाहं योद्धास्यां ससुहृदणः॥२७॥ इति नरपतिजल्पनादिजेन्द्र कुशिकसुतं सुमहान विवेश मन्युः । सुहुत
इव समिद्भिराज्यसिक्तः समभवदुज्ज्वलितो महर्षिवह्निः॥२८॥ इत्याचे श्रीरामायणे बालकाण्डे विंशः सर्गः ॥२०॥ इतीति । जल्पनात् असङ्गतोक्तेः। कोपाविष्टत्वे दृष्टान्तमाह सुहुत इति । आदौ समिद्भिः सुहुतः तत् आज्यसिक्तो वह्निखि महर्षिवह्निर्महर्षिश्रेष्ठः उज्ज्वलितस्समभवत् सञातवालो बभूव । मुनिपक्षे कोषवृद्धिः। पुष्पिताग्रावृत्तम् “अयुजि नगरेफतो यकारो युजि च ननौ जरगाश्च पुष्पिताया"| इति लक्षणात् ॥२८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने विंशः सर्गः ॥२०॥ संचोदितो मारीचः सुवाहुश्च यज्ञविघ्नं करिष्यत इति सम्बन्धः ॥२०॥ २१ ॥ स इति । अल्पभाग्यस्य त्वनियोगाकरणेनेति शेषः ॥ २२ ॥ २३ ॥ स हि वीर्यवतामिति । वीर्यमादत्ते स्वीकरोति, नाशयतीत्यर्थः ॥ २४ ॥ कथमिति । पुत्रकं पुन्नाम्रो नरकात बायत इति पुत्रकम्, अनेन पुत्रतनयशब्दयोर्न पौनरु One क्यम् ॥ २५ ॥ अथेति । तो यज्ञविघ्नकरौ युष्मद्यज्ञविनकारिणी चेति सुतं नैव दास्यामीति सम्बन्धः ॥२६॥ मारीच इति । तयोरन्यतरेण योद्धा स्यामिति काकु J॥२७॥ उज्ज्वलितः रोषजज्वालाख्यचिनवृत्तियुक्तः ॥२८॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायो बालकाण्डव्याख्यायो विंशः सर्गः॥२०॥
१ पुत्रकम् । वो हि यक्षस्य कन्यायां जाती दैत्यकुलोडही । मारीचश्च । २ समुदणः । अन्यथा त्वनुनेप्यामि भवन्तं सह बान्धवः । इत्यधिकः पाठः ।
For Private And Personal Use Only