SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir टी.बा.कां. ॥९ ॥ स०२० वा.रा.भू. स्वरूपमुक्तमादिपर्वणि "एको रथो गजश्चैको नराः पञ्च पदातयः । वयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते । पत्तिं तु त्रिगुणामेकं विदुः सेनामुखं । IMबुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते । त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्रस्तु वाहिन्यः पृतनेति विचक्षणः।। पचमूस्तु पृतनास्तिस्रस्ताश्च तिम्रस्त्वनीकिनी। अनीकिनी दशगुणां प्राहुरक्षौहिणी बुधाः ॥” इति । यस्याहं पतिरिति सन्धिराषः। पतिः पालयिता। पातेडतिः। ईश्वरः नियन्ता । योद्धा योत्स्ये, लुट् । तैर्यज्ञविघ्नकरैः॥३॥ इम इति । विक्रान्ताः अक्षतविक्रमाः॥४॥ अहमिति । गोप्ता, यज्ञस्येति शेषः। इमे शूराश्च विक्रान्ता भृत्या मेऽत्रविशारदाः । योग्या रक्षोगणेर्योद्धं न रामं नेतुमर्हसि ॥४॥ अहमेव धनुष्पाणि गोप्ता समरमूद्धनि । यावत्प्राणान धरिष्यामि तावद्योत्स्ये निशाचरैः ॥५॥ निर्विघ्नावतचर्या सा भविष्यति सुरक्षिता । अहं तत्र गमिप्यामि नरामं नेतुमर्हसि ॥६॥ बालो ह्यकृतविद्यश्च न च वेत्ति बलावलम् । नचालवलसंयुक्तो नच युद्धविशारदः॥ ७॥न चासौ रक्षसां योग्यः कूटयुद्धा हि ते भृशम् ॥ ८॥ विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे । जीवितुंमुनिशार्दूल न रामं नेतुमर्हसि ॥९॥ यदि वा राघवं ब्रह्मन नेतुमिच्छसि सुव्रत। चतुरङ्गसमायुक्तं मया च सहितं नय ॥१०॥ षष्टिवर्षसहस्राणि जातस्य मम कौशिक । दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि॥११॥ सेनानां वा ॥५॥ निर्विप्रेति । अहं गमिष्यामि, तेन सुरक्षिता भविष्यतीति योजना ॥६॥ बाल इति । बालः ऊनषोडशवर्षः, अतएव अकृतविद्यः अशि। क्षितधनुर्विद्यः । बलाबलं, शत्रूणामिति शेषः। "येषां च विरोधः शाश्वतिकः" इति एकवद्भावः ॥७॥ न चेति । रक्षसां, युद्ध इति शेषः । कूटयुद्धाः कपट युद्धाः । इदमर्द्धम् ॥८॥ तिष्ठतु रामस्वभावः, मत्स्वभावश्चैवमित्याह-विप्रयुक्तः विश्लिष्टः॥९॥ यदीति । चत्वारि अङ्गानि चतुरङ्गानि । “दिक्सङ्घये संज्ञायाम् " इति समासः ॥ १० ॥ षष्टिरिति । वर्षसहस्राणि, अतीतानीति शेषः । तदनन्तरं दुःखेन उपवासदीक्षादिकेशेन उत्पादितः ॥ ११॥ -इयमिति । यस्येति पुंल्लिङ्ग आर्षः । ईश्वरः स्वयं समर्थः । योद्धेत्यत्र अस्मीति शेषः ॥ ३ ॥ इम इति । विक्रान्ताः अक्षतविक्रमाः ॥ ४॥ अहमेवेति । गोप्ता, अव । रस्येति शेषः । प्राणान धरिप्यामि, जीवियामीत्यर्थः ॥५-७॥ न चेति । कूटयुद्धाः कपटयुद्धाः॥ ८॥९॥ यदिवेति । चत्वार्यङ्गानि चतुरङ्गानि ॥१०॥ षष्टिरिति । ॥१७॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy