________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'दश सप्त च वर्षाणि जातस्य तव पुत्रक । आसितानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥” इति । तस्मात् अष्टाविंशतेः पञ्चविंशतेः सप्तदशानां च कथमविरोध इति । अत्र केचित्, कौसल्यावाक्ये जातस्येति द्वितीयं जन्मोच्यते -क्षत्रियस्यापि द्विजत्वात् । द्वितीयं जन्म च उपनयनम्, तच्च वृद्धेन दशरथेन काम्यपक्षमाश्रित्य गर्भाष्टम एव कृतम् । तथा च द्वितीयजन्मापेक्षया सप्तदृशत्वम् । उपनयनात्पूर्व सप्तवर्षाणीति “ वयसा पञ्च विंशकः " इति सीतावचनमप्युपपन्नम् । “ ऊनषोडशवर्षः " इत्यत्र पादोनत्वम्, द्वादशवर्ष इत्यन्यत्रोक्तत्वात् । अतः सर्वथा वनप्रवेशकाले पञ्च विंशतिवर्ष एव राम इत्याहुः । अन्ये बहुक्केशं सहमाना एवं व्याचख्युः - अष्टाविंशतिवर्ष एव वनप्रवेशे रामः । ऊनषोडशवर्ष इति यत्किञ्चिन्मासोन पोडशवर्षवयस्क इत्यर्थः । " बाठो झकृतविद्यश्व न च वेत्ति बलाबलम् ” इति दशरथवचने बाल्ययौवनसन्धौ बाल इति व्यवहर्तुं शक्य
इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः । अनया संवृतो गत्वा योद्धाऽहं तैर्निशाचरैः ॥ ३ ॥
त्वात् । " बाल आषोडशाद्वर्षात्पौगण्डश्चेति कीर्त्यते " इति वचनात्। " बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः । अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः ॥ " इति मारीचवचनन्तु युद्धभीरुतया भ्रान्तिकृतम् रावणविभीषिकयोक्तं वा, अतएव स्वयं वायव्यास्त्रभग्रोऽप्यकृतास्त्र इत्याह । अजातव्यञ्जनत्वं च निरुदरा कन्येतिवदल्पश्मश्रुत्वम् । “ एकवस्त्रधरो धन्वी शिखी कनकमालया ” इत्यपि दृढपरिहितोत्तरीयतया सन्नद्धत्वमाह । वयसा पञ्चविंशक इति तु पञ्चविंशतुल्यत्वमाह । इवार्थे कनो विधानात् । तेन नित्ययौवनत्वं ज्ञापयति । देवा हि सदा पञ्चविंशतिवार्षिका इत्यु च्यन्ते । कौसल्यावाक्यमपि “ गर्भेकादशेषु राजन्यम् " इति विहितोपनयनापेक्षया । तस्मान्न किञ्चिदनुपपन्नमिति । वस्तुतो वयसा पञ्चविंशक इति सीतायाः शापभीतायाः संन्यासिनं प्रति वचनमेव यथार्थम् । दश सप्त च वर्षाणीति कौसल्यावाक्ये तु चकारेण सप्तवर्षाणि समुच्चीयन्ते, तेन जन्मापेक्षयैव पञ्चविंशतित्वसिद्धिः । ननु विवाहानन्तरमेव सम्भोगः श्रूयते "रामस्तु सीतया सार्द्धं विजहार बहुनृतन्" इति। स कथं द्वादशवर्षस्य बालस्य सम्भवति ? सम्भवत्येव, सौकुमार्यातिशयेन प्रौढशरीरतया । अतएव हि देव्याश्च पदवर्ष एव यौवनारम्भः । “अष्टादश हि वर्षाणि मम जन्मनि गण्यते " इति वन प्रवेशेऽष्टादशत्वम् विवाहकाले सीतायाः षड्वर्षत्वमवगमयतीति सर्व सुस्थम् ॥ २ ॥ तर्हि तब प्रतिज्ञा व्यर्था स्यात्तत्राह - इयमिति । अक्षो रथावयवः, तस्य ऊहः । तद्योगादिनिः । " ऋन्नेभ्यो ङीप् " इति ङीपि " पूर्वपदात्संज्ञायामगः " इति णत्वम् । "अक्षादूहिन्याम्-" इति वृद्धिः । अक्षौहिणी
१७
For Private And Personal Use Only