________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भ. (१९६॥
कौशिकवचनश्रवणादशरथविपादो विशे-तच्छुत्वेत्यादि । निःसंज्ञ इव चेतनारहित इव, मूच्छित इत्यर्थः॥१॥"यज्ञविनकर हन्याम्" इत्युक्त टा.वा.का. रीत्या निजयज्ञविननिवर्तकोऽयं भविष्यतीति मत्वा आगत्य प्रार्थयमाने विश्वामित्रे वत्सलो दशरथः प्रेमान्धतया कलुपित हृदयः अहंवेनीति तदुक्तमपिर मनस्यकुर्वन् रामस्य बाल्यमेव पुरस्कुर्वन्नाह-उनेति । ऊना असम्पूर्णाः पोडशवपी थस्य स तथोक्तः, द्वादशवर्ष इति यावत् । “बालो द्वादशवषा यमकृतास्त्रश्च राघवः” इति विशिष्यवक्ष्यमाणत्वात् । परिपूर्णपोडशवों हि युद्धक्षमो भवति । द्वादशवो बालः कथं युद्धाय प्रभवतीति भावः ।। एवं वयःस्वरूपे विचार्यमाणे नास्य युद्धयोग्यतेत्युक्तम् । राक्षसस्तु सुतरां नेत्याह-राजीवलोचन इति । पद्मतुल्यनयनः, पद्मं हि रात्री मुकुलीभवति. तत्तुल्यतोक्तौ रात्रौ निद्रालसो रामो रात्रिंचरैः कथं योद्धुं शक्रोतीतिभावः। मे रामः सदा मदुत्सङ्गपरिवर्तितया मदिरहासहिष्णुरित्यर्थः । यद्वा पुत्रा
तच्छुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत् ॥1॥
ऊनषोडशवर्षों मे रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ २॥ लाभेन पष्टिवर्षसहस्राणि लालप्यमानस्यातिकेशेनोत्पन्नः । रामः “रामो रतिकरः पितुः" इति रतिकरः सर्वस्वभूतः। अस्य-काकपक्षधरत्वादिषयुतो विद्याभ्यासादपि क्रीडनकस्वीकारकुतूहलीति हस्तेन निर्दिशति । युद्धयोग्यतां न पश्यामि, किंतु कीडनकस्वीकारयोग्यतामेव पश्यामीत्यर्थः । युद्ध योग्यतां राक्षसशब्दश्रवणमात्रेणैव विभ्यतां कथं युद्धयोग्यता। सहराक्षसः मनुष्येणापि युद्धव्यापारमजानतः कथं राक्षसः युद्धम् । एकेनापि राक्षसेन न योग्यता कुतो बहुभिः । अत्र शङ्कयते-अत्र दशरथेन पित्रा उनपोडशवर्ष इत्युक्तम् । ऊनत्वं च मासेन मासत्रयेण पण्मासर्वा स्यात्, न त्वेक| वर्षद्विवादिभिः । तस्मिन्नेव वर्षे सीताविवाहः। तदनु दादशवपाण्ययोध्यावासः । "समा द्वादश तत्राहं राघवस्य निवेशने । भुनानामानुपान् । भोगान् सर्वकामसमृद्धिनी” इति सीतया वक्ष्यमाणत्वात् । तथाच वनप्रवेशकाले रामस्याष्टाविंशतिवपीणीति प्रतिभाति । तदनुपपन्नम्-“मम भर्ता महातेजा वयसा पञ्चविंशकः । अष्टादश हि वर्षाणि मम जन्मनि गण्यते ॥” इति सीतावचनात् । कौसल्यया च वनप्रवेशसमये प्रोच्यते ॥ तच्छुत्येति । निःसंज्ञ इब निष्पाण इव ॥१॥ उनषोडशवर्ष इति । उनषोडशशब्दस्य द्वादशाब्दे पर्यवसानम् । तत्कथम् ? कौशिकयागसंरक्षणार्थमागत । रामवयोविशेषमुदिश्य “बालो द्वादशवर्षोयमकृतास्वच राघवः" इत्यारण्यकाण्डे रावणं प्रति मारीचेनोक्तत्वात् । योग्यतां क्षमताम् ॥२॥
For Private And Personal Use Only