________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
आलोचने"।"तस्मान्यासमेषां तपसामतिरिक्तमाहुः" इत्युक्तन्यासनिष्ठा वा ॥१४॥ यदीति । धर्मलाभं धर्मवृद्धिम् । स्थितं स्थिरम् ॥१५॥ यदि हीतिर विसर्जय प्रेषय ॥१६॥ अभिप्रेतमिति । अभिप्रेतं अभीष्टम् आत्मजम्, यज्ञस्य यज्ञाय । दशरात्रं देहि असंसक्तं अविलम्बितमिति कियाविशेषणम् ॥ १७॥ नात्येतीति ।ममायं यज्ञस्य कालो यथा नात्येति तथा कुरुप्वेत्यन्वयः ॥१८॥ इतीति । धर्मार्थसहितं धर्मार्थपरम् ।।१९।। स इति । शोकं दुःखं व्यषीदतु दुःखितोभूत्, विषण्णमुखोभूदित्यर्थः ॥२०॥ इतीति । हृदयं मनोधिष्ठानम् । अतीव अत्यर्थ व्यथितमनाः । महान् कुलेन महान् । विचचाल मुमूच्छ| यदि ते धर्मलाभं च यशश्च परमं भुवि । स्थितमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ॥१५॥ यदि ह्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः। वसिष्टप्रमुखाः सर्वे रांघवं मे विसर्जय ॥ १६॥ अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि । दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ १७॥ नात्येति कालो यज्ञस्य यथाऽयं मम राघव । तथा कुरुष्व भद्रं त मा च शोके मनः कृथाः ॥१८॥ इत्येवमुक्त्वा धर्मात्माधर्मार्थसहितं वचः। विरराम महातेजा विश्वामित्रो महामुनिः ॥ १९॥ स तन्निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् । शोकमभ्यगमत्तीवं व्यपीदत भयान्वितः ॥२०॥ इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् । नरपतिरभवन्महांस्तदा व्यथितमनाः प्रचचाल चास
नात् ॥ २१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनविंशः सर्गः ॥ १९॥ त्यर्थः । महदितिपाठे-महदत्यर्थ व्यथितमनाः अतीव विदारणमिति सम्बन्धः । वृत्तमुपजातिभेदः ॥ २१॥ इति श्रीगोविन्दराजविरचितं श्रीरामायण भूषणे मणिमजीराख्याने बालकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९॥ महात्मानं परमात्मानम् ॥ १४ ॥ १५ ॥ यदीति । यदि ददते ददीरन् ॥ १६ ॥ अभिप्रेतमिति । यज्ञस्य दशरात्रं दशदिनान्येव, अतः अभिप्रेतम् अभिमतम् आत्मन इष्ट रामसंसक्तमविचारं यथातथा ॥ १७ ॥ नात्येति नातिक्रमिप्यति ॥ १८-२०॥ इनीति । हृदयमनोविदारणं हृदयं मनसोऽधिष्टानम् । अतीवेत्येतदृदयमनो पाविदारणमित्यनेन सम्बध्यते। महदत्यर्थ व्यथितमना इति सम्बन्धः॥२१॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्व बालकाण्डव्याख्यायां एकोनविंशः सर्गः ॥१०॥
१ स्थिरभिन्छसि । २ ततो रामं विसर्जय । ३ विधामित्रमुखांदतम् । ४ शोकेन मनाविष्टश्चचाल च मुमाह च । लरपर्सशस्ततोत्थाय व्यापीदत भयान्वितः ॥ इति म हृदय । इनि च पाठान्तरम ।
For Private And Personal Use Only