________________
Shri Mahavir Jain Aradhana Kendra
बा.ग.भू.
॥९५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकृतिः, त्वं तु राजसः। अहं 'गर्भभूतास्तपोधनाः' इत्युक्तरीत्या रामस्य गर्भभूतः, त्वं तु रामे गर्भत्वाभिमानी । योगक्रमज्ञानवानहम्, न्वं तु भोगक्रमज्ञः अहं मोक्षकामेष्टिकृत् त्वंतु पुत्रकामेष्टिकृत् । अहं धर्ममोक्षपरः, त्वं तु अर्थकामपरः । एतत्सर्वं प्रसिद्धपरामर्शिना अहमित्यनेन सर्वनामशब्देनोच्यते ननु “सो अङ्ग- वेद यदि वा न किलेति वेदस्सन्देग्ध्यन र्धविमात्मनि रङ्गनाथम् ।” “विधिशिवसनकाद्यैर्ध्यातुमत्यन्त दूरम्" इत्युक्तरीत्या अपरिच्छिन्नं ॐ वस्तु कथं त्वया ज्ञातमित्यत्राह महात्मानम्, अपरिच्छिन्नमहिमतया वेद्मीत्यर्थः । तथा च श्रुतिः " वेदाहमेतं पुरुषं महान्तम् ' इति श्रुतौ एतमिति ॐ सौलभ्यमुच्यते । पुरुषमिति पराक्रमः, तदुभयमप्याह रामं सत्यपराक्रममिति । परत्वसौलभ्ये हि राज्ञइछत्रचामरवदसाधारणं । यद्वा "तेजसां हि न वयः समीक्ष्यते" इति बाल्येऽपि निरवधिकवैभवम् । यद्वा महात्मानं "सत्यस्य सत्यम्” इतिवदात्मनो जीवस्याप्यात्मानम् “य आत्मनि तिष्ठन् ” इत्यादि ॐ श्रुतेः । यद्वा आत्मा देहः " आत्मा जीवे धृतौ देहे " इत्यमरः । अप्राकृतदिव्यमङ्गलविग्रहमित्यर्थः । " न तस्य प्राकृता मूर्तिः " इतिस्मृतेः । यद्वा ॐ महात्मानं महास्वभावम् "अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम" इति वक्ष्यमाणत्वात् । यद्वा रामं महात्मानम् अवतारकृतमहा स्वभावयुक्तम् “स उ श्रेयान् भवति जायमानः" इतिश्रुतेः । सत्यपराक्रमं सदैकरूपपराक्रमम् “नाविजित्य निवर्तते" इति वक्ष्यते । यद्वा सत्यपराक्रमं परमार्थपराक्रमम् । यद्वा सत्यात्परानाक्रमतीति तथा “गच्छानुजानामि " इति बहुवारं प्रकृतिसम्बन्धकृत प्रातिकूल्यनिवर्तने यत्नं कृत्वा तथाप्यननुकूलत्वं तान् हन्तीत्यर्थः । यद्वा ॐ अयनकालेपि शत्रुभयङ्करः “सुखसुप्तः परन्तपः" इति वक्ष्यति । संस्थानविशेषौज्ज्वल्यदर्शनेन शत्रुहृदयविदारक इतिभावः। नाहं कार्यवशेन वदामीत्याह ॐ वसिष्ठोपीति। आप्ततमो हि भवतः कुलाचार्यो वसिष्ठः। अपिशब्दो विरोधे, अस्मद्विरोध्यपीत्यर्थः । यद्वा समुच्चये । महातेजाः सरस्वतीवल्लभ पुत्रः योगसिद्धज्ञानः। २७ यद्वा यद्वाक्येनाहं ब्रह्मऋषिरभवं सोपीत्यर्थः । यद्वा “ धर्मे चर" इति तव उपदिश्य स्वयमनुष्ठाता । ननु “यद्राह्मणश्चात्राह्मणश्च प्रश्रमेयातां ब्राह्मणा याधिब्रूयात्" इति तव मम च विवादे अस्य त्वयि पक्षपातः स्यादित्राह ये चेति । राजद्वारसम्बन्धरहिततया पक्षपातशून्याः “तस्य धीराः परिजानन्ति यो निम्” इति अवताररहस्यवेदिनः । ये चेमे 'पुलस्त्योऽगस्त्यः' इति प्रसिद्धाचार्यपद निर्वाहकाः। यद्वा 'गर्भस्थऋषिवमदेवः प्रतिपेदे' 'सप्तकल्पस्थितोमुनिः' इत्यादिनोत्तरोत्तरं ब्रह्मविदग्रेसरा वामदेवमार्कण्डेयादयः तिष्ठन्त्येते तव प्रियकराः । केवलपर मैकान्तिनों विजानन्तीत्याह तपसि स्थिताः । कायिकव्यापा रादीन् विना सदा तपसि स्थिताः। तानेकैकशो रहसि पृष्ट्वा तैरनुमतं चेत् रामं मे देहीति भावः । तपसि स्थिताः कायक्ले शस हाः । यद्वा ज्ञान योगनिष्ठाः “तप
For Private And Personal Use Only
टी.बा.क. म० १९.
॥९५॥