________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.विशिष्टः। परमऋषिरित्या "ऋत्यकः" इति प्रकृतिभावः । पुष्पितायावृत्तम् ॥६०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमश्रीराख्याने टी.बा.का. ॥९ बालकाण्डव्याख्याने अष्टादशः सर्गः ॥१८॥ अथ विश्वामित्राभ्यर्थनमेकोनविंशे-तच्छुत्वेत्यादि । अद्वतस्य विस्तरो यस्मिन् तदद्भुतविस्तरम् । दृष्ट स. १५
रोमा पुलकितरोमा ॥१॥ सशमिति । नान्यथा न मिथ्योच्यत इत्यर्थः । वसिष्टेन व्यपदेशः कीर्तिः उपदेशो वा । तृतीयेति योगविभागात समासः। सोऽस्यास्तीति तथा ॥२॥ यत्त्विति । मे हृद्गतं यत्कार्य वाक्यं वक्तव्यं तस्य निश्चयं करणाध्यवसायम् कुरुष्व,सत्यप्रतिश्रवः सत्यप्रतिज्ञः ॥३॥
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १॥ सदृशं राजशार्दूल तवैतद्भुवि नान्यथा । महाकुलप्रमृतस्य वसिष्ठव्यपदेशिनः ॥२॥ यत्तु मे हृद्तं वाक्यं तस्य कार्यस्य निश्चयम् । कुरुष्व राजशार्दूल भव सत्यप्रति श्रवः ॥३॥ अहं नियममातिष्टे सिद्धयर्थ पुरुषर्षभ।तस्य विनकरौ द्वौ तु राक्षसौ कामरूपिणी ॥४॥व्रते मे बहुशश्वीणेसमाप्त्यां राक्षसाविमौ । मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ । समांस रुधिरौघेण वेदितामभ्यवर्षताम् ॥५॥ अवधूते तथाभूते तस्मिन्नियमनिश्चये। कृत श्रमो निरुत्साहस्तस्माद्देशादपा
क्रमे ॥६॥ न च मेक्रोधमुत्स्रष्टुं वुद्धिर्भवति पार्थिव । तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ॥७॥ हृद्तं कार्यमाह-अहमित्यादिना । सिद्धयर्थ फलार्थम् । नियमं यज्ञदीक्षाम् । आतिष्टे आस्थितोऽस्मि । तस्य नियमस्य । विघ्नकरौ कामरूपिणो द्वौ राक्षसौ, स्त इति शेषः ॥ ४॥ व्रत इति । व्रते दीक्षारूपे । चीणे अनुष्ठिते । विघ्नकरणप्रकारमाह मारीच इति । समांसरुधिरौघेण मांसयुक्तरक्तप्रवाहेण । तो वेदि यज्ञवेदिम् । अभ्यवर्षताम् अभ्यषिञ्चताम्॥९॥ अवधूत इति । तथाभूते बहुशश्वीणें । नियमनिश्चये व्रतसङ्कल्पे । अवधूते विनिते। अपाक्रमे ।। आगतोऽस्मि ॥६॥ तर्हि कुतो न तो शप्तौ ? तत्राह-न चेति । तत्र हेतुमाह तथेति । सा चर्या यज्ञाचारः। तथाभूता हि शापानईकाला हि । अतःतत्र मारीच शब्देन त्रिशङ्कुस्वर्गारोहणनूतनस्वर्गसृष्टयादिहेतुभूतो ब्रह्मर्षित्वप्राप्त्यनुगुणो दिकचतुष्टयनिर्वतितचिरकालसम्पादिततपाशक्तिविशेष उच्यते । गुणविशिष्टः शम दमाद्यात्मगुणैविशिष्टः ॥६०॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां अष्टादशः सर्गः ॥१८॥ तच्छुत्वेति । अद्भुत
विस्तरम् अद्भुतप्रपक्षम् ॥ १॥ सहमिति । एतत्तवैव सहशम् । नान्यतः नान्यस्वेत्यर्थः । तत्र हेतुगर्भ विशेषणम् महावंशेत्यादि । वसिष्ठव्यपदेशिनः वसिष्ठों । पिदेशवतः ॥ २॥ यदिति । कार्यस्य कर्तव्यस्य । निश्चयमङ्गीकारम् ॥ ३॥ अहमिति । आतिष्ठे आचरिष्ये ॥४॥५॥ अवधूत इति । नियमनिश्चये व्रतसङ्कल्पे।।
For Private And Personal Use Only