________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
रण, करोमि करवाणि । पात्रभूतः दानयोग्यः । दिष्ट्या शुभादृष्टवशेन । दिष्टयेत्यानन्दद्योतकमव्ययमित्यप्याहुः ॥५३॥ अद्येत्यर्द्धमेकम् ॥५४॥ पूर्वी मिति । राजर्षिशब्देनोपलक्षितः राजर्षिशब्दवाच्य इत्यर्थः । अनु पश्चात् तपसा द्योतितप्रभः सन् ब्रह्मर्षित्वं प्राप्तोऽसि । अतः बहुधा राजर्पित्वेन ब्रह्मर्पित्वेन
च पूज्योऽसि ॥५५॥ तदिति । हे ब्रह्मन् ! तदिदमागमनं मम परमं पवित्रं परममद्भुतं च । हे प्रभो ! तव सन्दर्शनादुई शुभक्षेत्रगतः पुण्यक्षेत्रगतः, Mत्वदर्शनादिदं मत्क्षेवं तीर्थभूतं जातमित्यर्थः ॥५६॥ बहीति । तुभ्यमिति तृतीयार्थे चतुर्थी। आगमनं प्रति त्वया यत्कार्य यत्फलं प्रार्थितं तदहि । अहं ।
अद्य मे सफलं जन्म जीवितंच सुजीवितम् ॥५४॥ पूर्व राजर्षिशब्देन तपसा द्योतितप्रभः। ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि वहुधा मया॥५५॥ तदद्भुतमिदं ब्रह्मन् पवित्रं परमं मम। शुभक्षेत्रगतश्चाहं तव सन्दर्शनात्प्रभो ॥५६॥ ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति । इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥५७॥ कार्यस्य न विमर्श च गन्तुमर्हसि कौशिक। कर्ता चाहमशेषेण दैवतं हि भवान् मम ॥५८॥ मम चायमनुप्राप्तो महानभ्युदयो द्विज। तवागमनजः कृत्स्नो धर्मश्चानुत्तमो मम ॥५९॥ इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम् ।
प्रथितगुणयशा गुणेविशिष्टः परमऋषिः परमं जगाम हर्षम्॥६०॥ इत्यारे श्रीरामायणे बालकाण्डे अष्टादशःसर्गः॥१८ त्वयानुगृहीतः सन् त्वदर्थपरिवृद्धये इच्छामि, त्वदर्थपरिवृद्धिं कर्तुमिच्छामीत्यर्थः । “ रुच्यानां प्रीयमाणः” इति चतुर्थी ॥५७॥ कार्यस्य विमर्श कार्यविषयं संशयम् ॥ ५८॥ ममेति । अयं वदागमनरूपः॥ ५९॥ इतीति । हृदयसुखम् अर्थसौष्ठवायसुखकरम् । श्रुतिसुखं शब्दमार्दवाच्छति सुखम् । आत्मवता बुद्धिमता विनीतं विनयवद्यथा भवति तथा उक्तं वाक्यं निशम्य, प्रथितगुणयशाः पृथुतरगुणविषयकीर्तिः, न केवलं कीर्तिमा गुणे वाक्यम् । कं च ते परमं कामं करोमि किमु हर्षितः, के परम कामं किमु केन प्रकारेण करोमीत्यर्थः । दिष्टयेत्यव्ययमानन्दद्योतकम् ॥ ५२-५४ ॥ पूर्वमिति । राज शर्षिशब्देन सहितः ॥५५॥ तदभुतमिति । तदिदं तव सन्दर्शनम् अद्भुतमचिन्तितोपमानत्वादाश्चर्यावहम् । पवित्रं शुद्धिकरम् । शुभक्षेत्रगतः पुण्यक्षेत्रगतः । इदं । स्थलं त्वदर्शनात्पवित्रं जातमित्यर्थः ॥५६॥ ब्रूहीति। आगमनं प्रति कार्य फलभूतं यत्मार्थितं तबहि। त्वदर्थपरिवृद्धये त्वत्मयोजननिष्पादनाय ॥५४॥ कार्यस्पेति ।M विमर्शम् उरुलाघवचिन्ता कुर्याद्वा नवेति विचारं वा ॥५८ ॥ ५९॥ इति हृदयेति । प्रथितगुणयशाः प्रसिद्धेन गुणेन प्राप्तं यशो यस्य स तथोक्तः । प्रथितगुण
For Private And Personal Use Only