________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भ.
॥९३.
नेति शेषः । अडभाव आपः॥४४॥स इति । शास्त्रदृष्टेन कर्मणा, समर्पितमिति शेषः । कुशलम् अपूर्वार्थप्राप्तिम्, अव्ययं तस्याक्षयम् ॥ ४५ ॥ पुरानी इति । कुशलम् अनुपदवम् ॥४६॥ अति । देवं यज्ञादिकम्, मानुषम् अतिथिसत्कारादिकम् ॥४७॥ वसिष्ठं चेति । समागम्य समीपं गत्वा ऋषीन वामदेवादीन् । यथान्यायं यथाक्रमम् ॥ १८॥ त इति । निवेशनं सभाम् । पूजिताः विश्वामित्रेणेति शेषः। यथाईतः यथान्यायम् । प्रथमार्थ तसिः॥४९॥ स. अथेति । हृष्टः पुलकितः। " दृपेलोमसु" इतीडभावः। परमोदारः परमदाता । अभिपूजयन् स्तुवन् ॥ ५० ॥ यथेत्यादिश्लोकद्वयमेकान्वयम् ।
स राज्ञः प्रतिगृह्याऱ्या शास्त्रदृष्टेन कर्मणा । कुशल चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥४५॥ पुरे कोशे जनपदे बान्ध वेषु सुहृत्सु च । कुशलं कौशिको राज्ञः पर्यपृच्छत्सुधार्मिकः॥४६॥ अपि ते सन्नताः सर्वे सामन्ता रिपवो जिताः। दैवं च मानुषं चापि कर्म ते साध्वनुष्ठितम् ॥४७॥ वसिष्ठ च समागम्य कुशलं मुनिपुङ्गवः। ऋषीश्चान्यान् यथा न्यायं महाभागानुवाच ह ॥४८॥ ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् । विविशुः पूजितास्तत्र निषेदुश्च यथार्हतः॥४९॥ अथ हृष्टमना राजा विश्वामित्रं महामुनिम् । उवाच परमोदारो हृष्टस्तमभिपूजयन् ॥५०॥ यथाऽमृतस्य सम्प्राप्तिर्यथा वर्षमनूदके । यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ॥५१॥ प्रणष्टस्य यथा लाभो यथा हषों महोदये । तथैवागमनं मन्ये स्वागतं ते महामुने ॥५२॥ कं च ते परमं काम करोमि किमु हर्षितः । पात्र
भूतोऽसि मे ब्रह्मन् दिष्ट्या प्राप्तोऽसि धार्मिक ॥५३॥ अमृतस्य सुधायाः। अनूदके अनुदके “अन्येषामपि दृश्यते” इति दीर्घः । अप्रजस्य अपुत्रस्य । प्रणटस्य निध्यादेः। महः पुत्रविवाहाद्युत्सवः। "मह उद्धव उत्सवः" इत्यमरः। तस्योदये। स्वागतम् अचिन्तितोपनतम्, ते आगमनं तथा मन्ये ॥५॥५२॥ कं चेति । कामम् अभीष्टम् । किमु केन प्रका मिति । समाहितः एकाग्रः ॥ ४३ ।। तमिति । संशितव्रतम्-तीक्ष्णनियमम् अर्यमुपहारयत् । वसिष्ठेनेति शेषः ॥४४॥ स इति । अव्ययं राज्यानेषु क्षेमम्॥४५॥४६॥ ॥९३|| अपि ते सन्नता इति । अपिः प्रश्ने । देवं च मानुषं च कर्म-देवं कर्म होमदेवताचनादिकम्, मानुषं कर्म सामदानभेदादिकम् गजबन्धनादिकं च ॥ ४७ ।। वसिष्ठं । चति । ऋषीन वामदेवादीन । यथान्यायं यथाईम् ॥४८॥ ४९॥ अयेति । हृष्टः पुलकितः प्रणष्टस्य. वस्तुन इति शेषः ॥ ५० ॥५१॥ स्वागतं त इति भिन्नं ५
For Private And Personal Use Only