________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
लालिता अपि वैदिकानां वेदसम्बन्धिना स्मृतीतिहासपुराणन्यायादीनामध्ययने रता निरताः॥ ३७ ॥ अथेषां समावर्तनोचितकालपाप्तिं दर्शयतिअथेति । दारविषयिणी क्रिया दारक्रिया, विवाह इत्यर्थः। चिन्तयामास तुल्यशीलवयोवृत्ताभिजनलक्षणकन्यान्वेषणं कृतवान् । अयमर्थों धर्मात्मेत्यने । नावगम्यते ॥ ३८ ॥ इयता प्रबन्धन भगवद्वतारो दर्शितः। अथ भगवदवतारप्रयोजनानि साधुपरित्राणदुष्कृद्धिनाशनधर्मस्थापनानि दर्शयत्याशास्त्र समाप्तेः । तत्र साधुपरित्राणं प्रधानम्, कर्षकस्य सस्यवृदिरिख । दुष्कृद्विनाशस्त्वानुषङ्गिकः, सस्वप्रतिबन्धकतृणोन्मूलनवत् । अतो दुष्कृतिना शनान्तरीयकं साधुपरित्राणं वक्तुमुपक्रमते विश्वामित्रवृत्तान्तेन, अर्थाद्धर्मसंस्थापनमपि सिध्यतीति बोध्यम् । तस्येति । चिन्तयमानस्य चिन्तयमाने ।
अथ राजा दशरथस्तेषां दारक्रियां प्रति । चिन्तयामास धमात्मा सोपाध्यायः सबान्धवः ॥ ३८॥ तस्य चिन्तय मानस्य मन्त्रिमध्ये महात्मनः । अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः॥ ३९ ॥ स राज्ञो दर्शनाकांक्षी द्वाराध्यक्षानुवाच ह । शीघ्रमाख्यातमा प्राप्त कोशिकं गाधिनन्दनम् ॥ ४०॥ तच्छुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः । सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः॥४१॥ ते गत्वा राजभवनं विश्वामित्रमृषि तदा। प्राप्त मावेदयामासुर्नुपायैक्ष्वाकवे तदा ॥४२॥ तेषांतद्वचनं श्रुत्वा सपुरोधाः समाहितः । प्रत्युजगाम तं हृष्टो ब्रह्माण मिव वासवः ॥ ४३ ॥ तं दृष्ट्वा ज्वलितं दीप्त्यातापसं संशितव्रतम् । प्रहृष्टवदनो राजा ततोऽय॑मुपहारयत् ॥४४॥ स्वयं तत्कार्यसमर्थोऽपि रामवैभवप्रकटनाय तदागमनमिति सूचयति महातेजा इति ॥ ३९ ॥ स इति । कौशिक कुशिकगोत्रजम् ॥ ४०॥ तदिति । तेन वाक्येन चोदितास्तच्छ्रुत्वा वेश्म प्रति प्रदुद्रुवुः ॥ ११ ॥ त इति । ऐक्ष्वाकवे इक्ष्वाकुवंश्याय । क्रियाग्रहणं कर्त्तव्यम् इति संप्रदानत्वम्, अभ्यागतविलम्बासहिष्णव इति भावः ॥ ४२ ॥ तेषामिति । सपुरोधाः पुरोहितसहितः । ब्रह्माणं चतुर्मुखम् ॥४३ ॥ तमिति । ज्वलितम् । अकर्मकत्वात् “गत्यर्थाकर्मक-" इति कर्तरि क्तः। संशितव्रतं तीक्ष्णनियमम् । अयं पूजार्थोदकम् । उपहारयत्, वसिष्टे दिक्पालकैः ॥ ३४-३७ ॥ अथ राजेति । सोपाध्यायः सपुरोहितः ॥ ३८ ॥ तस्य चिन्तयमानस्येति भावलक्षणे षष्ठी । महातेजाः महाप्रभावः ।। ३९४४२ ॥ तेषा
For Private And Personal Use Only