________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
अप प्रत्येकमसाधारणान गुणान् वकुमादौ रामगुणानाह--तेषामिति । अपिशब्देनान्येषां रघुवंश्यानामपि मध्य इत्यर्थः । महातेजा महाप्रतापः । सत्यपराक्रमः अमोघवीर्यः। निर्मलइशशाङ्कइव सर्वलोकस्य इष्टः सर्वदा दर्शनीयः, अभवदिति शेपः ॥२७॥ गज इति । अत्र राम इत्यनुपज्यते । गजस्कन्धे स्थित्वा तत्प्रेरणसम्मतः राम इव गजस्कन्धारोहणादौ न कोऽपि समर्थ इति गजसादिभिः श्लापित इत्यर्थः । एवमुत्तरत्रापि योज्यम् ॥२८॥ अथ लक्ष्मणगुणविशेषानाह-वाल्यादित्यादिभिश्चतुर्भिः । लक्ष्मी वर्द्धयतीति लक्ष्मिवर्द्धनः। “ड्यापोः संज्ञाछन्दसोर्बहुलम्" इति ह्रस्वः। कैकय सम्पद्वर्द्धकः लक्ष्मणः रामस्य बाल्यात्प्रभृति बाल्यमारभ्य। प्रभृतियोगेऽपि पञ्चमी प्रयुज्यते । सुम्निग्धः सुतरां स्निग्धः, अङ्कुरात् प्रभृति परिमलेनै
तेषामपि महातेजा रामः सत्यपराक्रमः । इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ॥ २७ ॥ गजस्कन्धेऽश्वष्टष्ठे चरथचर्यासु सम्मतः। धनुर्वेदे च निरतः पितुः शुश्रूषणेरतः॥२८॥ बाल्यात्प्रति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्द्धनः। । रामस्य लोकरामस्य भ्रातुज्येष्ठस्य नित्यशः॥२९॥ सर्वप्रियकरस्तस्य रामस्यापि शरीरतः। लक्ष्मणो लक्ष्मि ।
सम्पन्नो बहिःप्राण इवापरः॥३०॥ न च तेन विना निद्रा लभते पुरुषोत्तमः। मृष्टमन्नमुपानीतमश्नाति न हितं विना॥३॥ वोत्पन्नस्तुलसीकाण्ड इव जन्मनःप्रभृति निरवधिकभक्तिसम्पन्नः । यद्वा सुस्निग्धः रामपर्यङ्कण स्वपर्यङ्कायोजने बाल्येऽपि न निद्रातीत्यर्थः। अनेन । स्वरूपप्रयुक्तत्वं दास्यस्योक्तम् । अथ गुणकृतत्वमाद-लोकरामस्य लोकान रमयतीति लोकरामः । ण्यन्तातकर्मण्यण । “गुणेर्दास्यमुपागतः" इत्य। न्यत्रोक्तम् । तस्य धातुः ज्येष्ठस्येत्यनेन जन्मकृतदास्यमुक्तम् । नित्यशः नित्यं सुस्निग्ध इत्यन्वयः ॥२९॥ सर्वेति । शरीरत इत्युपलक्षणम् । त्रिविध करणैरपि रामस्य सर्वप्रियकरः । यद्वा स्वशरीरादपि रामस्य प्रियकरः, स्वशरीरमुपेक्ष्यापि प्रियकर इत्यर्थः । यद्वा शरीरतो बहिः स्थितः अपरः प्राण इव स्थितः। यद्वा शरीरतः रामशरीरस्य "सावविभक्तिकस्तसिः" इत्युक्तेः। लक्ष्मणस्य दक्षिणबाहुत्वाद्रामसर्वावयवानां सर्वप्रियकर इत्यर्थः।। "रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः" इति वक्ष्यमाणत्वात् । अस्मिन् पक्षे अपिशब्देन रामस्य स्वविषयप्रियकरत्वं समुच्चीयते । लक्ष्मि सम्पन्न इत्यनेन लक्ष्मणशब्दार्थ उक्तः ॥ ३०॥ रामस्य लक्ष्मणेऽनुरागं दर्शयति-न चेति । तेन विना । "पृथग्विनानानाभिस्तृतीयान्यतरस्याम्" कर्माभिधानं क्रमस्याविवक्षितत्वात् ॥ २४ ॥ तेषां केतुरिति । रतिकरः आनन्दकरः, भूपः अतिशयेन संमतः ॥ २५-२८ ॥ बाल्यादिति । लक्ष्मिवर्द्धनः आर्यों
For Private And Personal Use Only