SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir वा.ग.भ. ॥९॥ व्युत्पन्योति भावः । महात्मानं महास्वभातम्, निरवधिकगुणमिति यावत् । अनेन रामपदप्रवृत्तिनिमित्तमुक्तम् । राजा ज्येष्ठपुत्रं रामनामानमकरोत् । टी.बा.को कैकयीसुतं भरतनामानमकरोत् । भरत ते राज्यस्य भरणादिति सहस्रानीकोक्तरीत्या । राजनि मृते रामे च वनं गते अराजकराज्यभरणादिति।। स० १८ भावः। एवं मौमित्रि सुमित्रापुत्र लक्ष्मण इति नामयुक्तमकरोत् । रामकैकर्यलक्षणसम्पयुक्तत्वालक्ष्मणः । “लक्ष्म्या अच्च" इति पामादिपागदि। कारस्याकारः मत्वर्थीयो नः । अतएव 'लपणो लक्ष्मिसम्पन्नः' इति वक्ष्यति । अपरं सौमित्रि शत्रुघ्नं शत्रुघ्रनामानमकरोत् । शत्रून् हन्तीति शत्रुघ्नः ॥२१॥ ननु क्षत्रियस्य नामकरणेऽनधिकारात् पुरोहितकर्तृकत्वस्मरणात् कथं दशरथस्य नामकर्मकर्तृत्वम् ? इत्याशङ्कय पुरोहितद्वारा कर्तृत्व ॥ वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ॥ २२ ॥ ब्राह्मणान् भोजयामास पौरजानपदानपि । अददद्ब्राह्मणानां च रत्नौघममितं बहु ॥ २३ ॥ तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥ २४ ॥ तेषां केतुरिव ज्येष्टो रामो रति करः पितुः। बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः॥२५॥ सर्वे वेदविदः शूराः सर्वे लोकहिते रताः । सर्वे ज्ञानो पपन्नाश्च सर्वे समुदिता गुणैः ॥ २६ ॥ मित्यभिप्रेत्याह-वसिष्ठ इति । तदा द्वादशेऽह्नि, अतएवाकारयदिति वक्ष्यति ॥ २२ ॥ नामादि नान्दीकरणमिति नियमानामकर्मणि नान्दीकरण माह-ब्राह्मणानिति । पौरेत्यादि ब्राह्मणविशेषणम् । राज्ञेति शेषः । ब्राह्मणानामिति सम्बन्धसामान्ये षष्ठी। अमितम् असङ्ख्येयं। बहु बहुप्रकारम् ॥२३॥ उक्तानुवादपूर्वकमितरसंस्कारकरणं दर्शयति-तेषामित्यर्द्धम् । आदिशब्देनान्नप्राशनचौलोपनयनादीनि गृह्यन्ते ॥२४॥ उक्तं रामस्य महात्मत्वमुपर पादयति-तेषामिति । तेषां सुतानां मध्ये वयसा ज्येष्ठः । केतुरिख ध्वज इव निजकुलप्रकाशकः । पितुर्भूयो रतिकरः सन्तोषकरः, भूतानां स्वयम्भूरिख, सम्मतः नित्यप्रेमास्पदं बभूव ॥ २५॥ उपनीतानां तेषां वेदाध्ययनादिकमाह-सर्व इति । वेदविदः अधीतवेदाः । “विद्ल लाभे" इत्यस्मात् क्विम्।। शुरा इत्यनेनापीतधनुर्वेदत्वमुच्यो । लोकहिते रता इत्यनेन धनुर्वेदाभ्यासकार्यपरत्वम् । वेदार्थज्ञानसिद्धिमाह ज्ञानेति । ज्ञानकार्यगुणसम्पत्तिमाह समुदिता गुणेरिति । गुणैर्दयादिभिः, आसन्निति शेषः ॥२६॥ शब्दः सूतकान्तोपलक्षणम् । अन्यथा क्षत्रियस्य द्वादशेऽहनीति वचनाविरोधात ॥ २०-२३ ॥ तेषामिति । जन्मक्रियादीनि जातकर्मादीनि, नामकरणानन्तरं जात ॥११॥ For Private And Personal Use Only
SR No.020791
Book TitleValmiki Ramayanam Part 01
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages468
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy