________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
राज्ञ इति । एकत्वेऽपि पृथग्वर्तमानाः। एकस्य चतुर्दावस्थाने उपमानमाह-प्रोष्ठति। प्रोष्ठो गौः तस्येव पादा यास ताःप्रोष्ठपदाः। “सुप्रात-" इत्यादिसूत्रे अचप्रत्ययान्तो निपातितः।रुच्या कान्त्या प्रोष्ठपदोपमाः। राज्ञोऽनुरूपाश्चत्वारः पुत्रा जज्ञिरे, यज्ञफलं निवृत्तमिति भावः पृथग्गुणवन्त इति वा प्रत्येक | मनन्यसाधारणगुणवन्त इत्यर्थः। रामस्य सामान्यधर्मरूचिः, लक्ष्मणस्य शेषत्वज्ञानम्, भरतस्य भगवत्पारतन्त्र्यधी, शत्रुघ्नस्य भागवतपारतन्त्र्यमिति परस्परविलक्षणगुणवन्त इत्यर्थः ॥ १५ ॥ जननकालिकशुभनिमित्तानि दर्शयति-जगुरिति । कलम् अव्यक्तमधुरं यथा भवति तथा जगुः । खात्
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः॥1॥जगुः कलंचगन्धर्वा नन्तश्चाप्सरोगणाः । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ १६ ॥ उत्सवश्च महानामीदयोध्यायां जना कुलः ॥ १७॥ रथ्याश्च जनसम्बाधा नटनर्तकसडुलाः । गायनैश्च विराविण्यो वादनैश्चतथाऽपरैः॥ १८॥ प्रदेयांश्च ददौ राजा मृतमागधवन्दिनाम् । ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः ॥ १९॥ अतीत्यैकादशाहं तु नाम कर्म तथाऽकरोत् ॥२०॥ ज्येष्ठं रामं महात्मानं भरत कैकयीसुतम् । सौमित्रि लक्ष्मण इति शत्रुघ्नमपरं तथा॥२३॥ आकाशात ॥१६॥ अथ जातकोत्सवमाह-उत्सवश्चेति । अयोध्यायामित्यनेन प्रतिगृहमुत्सवोऽभूदित्युच्यते । जनाकुलः आकुलजनः । इदम मकम् ॥ १७॥ रथ्याश्चेति । गायन गायकैः, वादनः वाद्यशिल्पः, अपरैःमूतमागधवन्दिभिश्च, विराविण्यः शब्दवत्यः रथ्या आसन् ॥ १८॥ अथ दानसमृद्धिमाह-प्रदेयानिति । प्रदेयान् पारितोषिकान् । मूतमागधवन्दिनामिति शेषे पष्ठी । सूताः पौराणिकाः, मागधाः वंशावलिकीर्तकाः, वन्दिनः स्तुतिपाठकाः । सुतादीनां प्रदेयान् ददावित्यन्वयः । गोधनानि गोरूपधनानि सहस्रशः सहस्राणि ॥ १९ ॥ अतीत्येति अर्द्धमेकम् । लक्ष्मणजन्म दिनापेक्षया एकादशाहत्वम्, रामजन्मदिनापेक्षया द्वादशदिनं तत् । तदत्यये प्रथमतकेनैव निवृत्तेन सर्वसतकनिवृत्तेादशाहे नामकरणवचनमपपन्न मेव । अन्यथा "क्षत्रियस्य द्वादशाहं मृतकम्” इति श्रुतिः। "यादश राज्ञां नामकरणम्" इति स्मृतिश्च विरुध्येत । नामकर्म नामकरणम । तथा जातकर्मवदित्युत्सवातिशयोऽतिदिश्यते ॥२०॥ कस्य किं नामाकरोदित्यवाह-ज्येष्ठमिति । रामं रामनामानम् रमन्ते सर्वे जनाः गुणैरस्मिनितिन राज्ञ इति । प्रोष्ठपदोपमाः चतुर्णा साहश्यात प्रोष्ठपदशब्देन पूर्वोत्तरमोष्ठपदरूपाणि चत्वारि नक्षत्र पुण्यन्ते ॥ १५-१९ ।। अतीत्यकादशाहं तु अब एकादशाह
For Private And Personal Use Only