________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
वा.रा.भ.निर्भयः सर्वभूतेभ्यो नवम्यां जायते नरः॥" पुनर्वसुनक्षत्रफलम्-"सहिष्णुडवृत्तिश्च श्रेष्मलो नाटयकोविदः । अगृनुरल्पसन्तुष्टः शीघ्रगोऽदिति टी.बा.को. धिष्ण्यजः॥" चतुर्थपादजन्मफलम्-“कान्तप्रियवपुः शुक्ष्णःसजनः प्रियदर्शनः । लक्ष्मीवान् प्रियवादी च आदित्यान्ते प्रजायते॥" उच्चस्पेन बृहस्प।
स०१८ तिना समं चन्द्रस्य स्थितिः कर्कटक इति पुनर्वसुचतुर्थपादत्वं सिद्धम्। चैत्रपुनर्वसू शुकृपक्ष एवेति सिद्धम् । कर्कटकलमजन्मफलम्-“कर्कटे लग्नके चन्द्र युक्ते दृष्टे च भोगवान् । गुरुणा वीक्षिते युक्ते धनाढ्यो बहुभोगवान्॥" तानिमान फलविशेषान सूचयितुं मासतिथ्यादिकीर्तनम्। तथैवाह जगन्नाथमित्या दिना । जगन्नाथमित्यनेन “पञ्चीचे लोकनायकः" इत्युक्तं फलं दर्शितम् । लग्रस्य गुरुयोगफलमाह सर्वलोकनमस्कृतमिति । यथा होराप्रदीपे-"कविः सुगीतः प्रियदर्शनः सुखी दाता च भोक्ता नृपपूजितः शुचिः । देवद्विजाराधनतत्परोऽथ भवेन्नरो देवगुरौ तनुस्थिते॥" रामं पश्चाद्रामाख्यम् । यद्वा राम श्यामवर्णम्, "अथोरामो सावित्री" इत्यत्राथश्यामाविति व्याख्यानात् । अनेन कर्कटे कन्याशे जात इति व्यज्यते । कन्याया बुधांशत्वात बुधस्य लाच श्यामत्वात् शुक्रांशत्वाद्वा । यथाह मिहिरः-"रक्तश्यामो भास्करो गौर इन्दु त्युच्चाङ्गो रक्तगौरश्च वकः। दूर्वाश्यामो ज्ञो गुरुगौरगावः श्यामः शुक्रो
भास्करिः कृष्णदेहः ॥” इति । सर्वलक्षणसंयुतम् सर्वलक्षणैः सामुद्रिकोक्तैः पूर्णम् । इदं लपचन्द्रफलम् "पूर्ण शीतकरे लग्ने तेजस्वी नित्यगर्वितः"| इति होराशास्त्रात् । विष्णोरर्द्धम्-विष्णुमयस्य पायसस्यादीशपरिणामभूतम् । पुत्र-पुन्नाम्रो नरकात्रायत इति पुत्रः तम् । पुनस्तं विशेषयति पेक्ष्वाक वर्द्धनमिति । ऐक्षाकस्य दशरथस्य वर्द्धनम् । अनेन लग्रस्य सौम्यग्रहयोगफलं दर्शितम् । यथा-" नरश्चिरायुपपूजितः सुखी लग्नं भवेत्सोम्ययुतं यथा तथा । लग्ने तथा स्वामिनिरीक्षिते धनी कुशाग्रबुद्धिः कुलकीर्तिवर्द्धनः ॥” महाभागं महाभाग्ययुक्तम्, अनेन लग्नचन्द्रकृतोऽपि दोषो गुरु योगात् परिहियत इति सूच्यते । यथाहुः दोराप्रदीपे-"जन्मकालिकलनांशे चन्द्रः केन्द्रगतो यदि । जातस्य विनयो वित्तं ज्ञानं बुद्धिश्च नैपुणम् ॥ दीनं ।। पणफरस्थेऽस्मिन् मध्यान्येतानि तस्य च । आपोक्किमस्थचन्द्रश्चेदुत्कृष्टानि भवन्ति हि ॥ स्वांशेऽधिमित्रस्य नवशिके वा चन्द्रे तु वाचस्पतिना च दृष्टे । एवंविधे शीतकरे व रात्री शुकेण दृष्टे धनवान सुखी स्यात् ॥” एवं केमद्रुमयोगोऽपि नास्तीत्युच्यते । केमद्रुमो नाम-चन्द्रलग्रस्योभयपाधै ग्रहाभावः। नछत्र मिथुने सिंहे वा कश्चित् ग्रहोऽस्ति । तथाह गार्ग्य:-"व्ययार्थीभयगश्चन्द्रादिना भानुं न चेद्ग्रहः । योगः केमद्रुमो नाम जातः स्यादव गर्हितः सन्तानबन्धुजनवरसुहृदिहीनो दारिद्यदेन्यगददुःखमलेरुपेतः । प्रेष्यः खलः सकललोकविरुद्धवृत्तिः केमद्रुमे भवति पार्थिववंशजोऽपि ॥" एतत्सर्व मात्मानुभावेन परिहियत इत्युच्यते महाभागशन्देन । ययाइ मणिबन्ध:-"लमारकेन्द्रगते चन्द्र ग्रहरेकादिभियुते । केमद्रुमफलं न स्यात्केचित ।
For Private And Personal Use Only