________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyanmandir
योगादा । स च वैशाखादी भवेत् । द्वादशे "तस्य पूरणे-" इति डट् । चैत्री पौर्णमास्यस्मिन्निति चैत्रः । “सास्मिन् पौर्णमासीति" इति संज्ञायाम । चकारो वारसमुच्चयार्थः । नावमिके नवम्याम् । विनयादित्वात्स्वार्थे उक । “तिथयो योः" इति तिधिशब्दस्य पुल्लिङ्गस्यापि सम्भवात् ङीवभावः। अदितिर्देवता यस्य तदितिदेवतम्, तस्मात् । देवनान्तात्तायें यक छान्दसः। नक्षत्रे पुनर्वस्वोरित्यर्थः। "पुनर्वसूनक्षत्रमदितिर्देवता" इति श्रुतेः। पञ्चसु ग्रहेषु स्वोच्चसंस्थेषु सूर्यगुरुशुकाङ्गारकशनिषु स्वोच्चस्थानस्थितेषु सत्सु । उच्चस्थानलक्षणमुकं वराहमिहिरेण "अजवृषभमृगाङ्गनाकुलीरा झप
ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह । प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ॥९॥
कौसल्याजनयद्रामं सर्वलक्षणसंयुतम् । विष्णोरई महाभागं पुत्त्रमेवाकवर्द्धनम् ॥१०॥ वणिजौ च दिवाकरादितुङ्गाः" इति । कर्कटे कर्कटकाख्ये लमे राश्युदये। " राशीनामुदयो लमम्" इत्यमरः । वाक्पतौ वृहस्पती । इन्दुना सह प्रोद्यमाने उदयति सति । आर्षमात्मनेपदम् । अत्र प्रोद्यमान इत्युक्ततात्पुनर्वसुनक्षत्रस्य कर्कटराशित्वाच्च तन्दुः स्थित इत्यवगम्यते । कर्कटकस्तु गुरोरुच्चस्थानम्, इन्दुना वर्तमानी गुरुस्तत्र वर्तत इति गुरुरुचस्थः । चैत्रमासे सूर्यस्य मेषप्रवेशात सूर्योऽप्युच्चगत एव । बुधः सदा रविसन्निहितान तदोच्चस्थानस्थः। चन्द्रश्च कर्कटगो नोच्चस्थः । तथा च परिशेषान्मन्दाङ्गारकशुकास्तुलामकरमीनसंस्था इति पञ्चानामुच्चस्थत्वम् । नामकीर्तनं । विना पञ्चोच्चस्थत्वकीर्तनं तत्फलविशेषप्रतिपादनाय । यथाहुः “एकग्रहोच्चजातस्य सर्वारिष्टविनाशनम् । द्विग्रहोच्चे तु सामन्तस्त्रिग्रहाचे महीपतिः।। साचतुग्रहोचे सम्राट् स्यात् पञ्चोचे लोकनायकः॥” इति । प्रत्येकोच्चफलं चाहः-"सूर्य स्वाञ्चगते जातस्सनापत्यमवाप्नुयात् । भौमे स्वोच्चगते जातो सवने राजा भविष्यति । गुरौ स्वोच्चगते जातो धनी राज्याधिपो भवेत् । शुक्र स्वोच्चगते जातो राज्याश्रियमवाप्नुयात् । शनी स्वोच्चगते जातो राजा (ज्या) धिपसमो भवेत् ।" इति । गुरुचन्द्रयोगफलमुक्तं मिहिरेण-"दृढमोहदो विनीतः स्वबन्धुसंमानकृद्धनेशश्च । शशिगुवोर्गुणशीलः सुरद्विजेभ्यो रतो भवेत्
पुरुषः॥” इति । रविवुधयोगफलं च तेनैवोक्तम्- "वेदान्तविस्थिरधनो रविज्ञयोः प्रायशो यशोर्थी स्यात्। आर्यः क्षितिपतिदयितः सतां च बलरूप प्राविद्यावान् ॥"चैत्रमासजन्मफलम्-"चैत्रे मधुरभापी स्यादहकारसुखान्वितः।" नवमीजन्मफलम्-“दीर्घवैरी भुवि ख्यातो वश्यः शूरश्च पण्डितः।
१ दिव्यलक्षणमंयुनम् । २ महाभागमैक्ष्वाककुलवर्धनम् । इति च पाठान्तरम् ।
For Private And Personal Use Only