________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
था.रा.भू.
'कोसलो नाम मुदितः स्फीतो जनपदो महान्' इत्यारभ्य भगवतोऽवतारनिमित्तान्युक्तानि । अथावतारंदर्शयत्यष्टादशे-निर्वृत्ते स्वित्यादि । अत्र टी.बा.कां. 'पुत्रोत्पत्ति विचिन्तयन् ' इत्येवमन्तो ग्रन्थः 'हुताशनादित्यसमानतेजसोऽचिरेण गर्भान् प्रतिपेदिरे तदा ' इत्येतच्छेषोऽनूयते । निर्वृत्ते समाप्ते स. १
→ श्रीरामावतारघट्टः। - निवृत्ते तु कतौ तस्मिन् हयमेधे महात्मनः। प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम् ॥१॥ समाप्तदीक्षानियमः पत्नीगणसमन्वितः । प्रविवेश पुरी राजा सभृत्यबलवाहनः ॥२॥ यथार्ह पूजितास्तेन राज्ञा वै पृथिवीश्वराः। मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुङ्गवम् ॥३॥श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्ततः । बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे॥४॥ गतेपु पृथिवीशेषु राजा दशरथस्तदा । प्रविवेश पुरीं श्रीमान पुरस्कृत्य द्विजोत्तमान ॥५॥शान्तया प्रययौ सार्द्धमृश्यशृङ्गः सुपूजितः। अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता ॥६॥ एवं विसृज्य तान सर्वान् राजा सम्पूर्णमानसः। उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् । ततो यज्ञे समाप्ते
तु ऋतूनां षट् समत्ययः॥७॥ ततश्च द्वादशेमासे चैत्रे नावमिके तिथौ । नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु ॥८॥ हयमेधे, पुत्रेष्टिसहित इति शेषः ॥१॥ समाप्तेति । दीक्षार्थो नियमो दीक्षानियमः। प्रविवेश प्रवेष्टुमुपचक्रमे। आदिकर्मयोतकः प्रशब्दः ॥२॥ यथेति । मुनिपुङ्गवं वसिष्ठम् ॥३॥श्रीमतामिति । शुभ्राणि दशरथदत्तवस्त्रादिभिः ॥४॥ गतेष्विति । द्विजोत्तमान वसिष्ठादीन् ॥५॥ शान्तयेति । अथ नगर प्रवेशानन्तरम् । सानुयात्रेण सभृत्येन राज्ञा रोमपादेन अन्वीयमानः अनुगम्यमानः ॥६॥ एवमिति । एवम् ऋश्यशृङ्गवत् । तान् द्विजोत्तमान्, सम्पूर्ण मानसः सम्पूर्णमनोरथः। तत इत्यर्धमेकम् ॥७॥ अथ भगवतः प्रादुर्भावं दर्शयति त्रिभिः-ततश्चेत्यादि । ततः अश्वमेघसमाप्त्यपेक्षया पायसोपा VI प्रासङ्गिकदेवतावतारमुक्या प्रकृतं प्रधानावतारमाह-नित्त इत्यादि। पुत्रोत्पत्ति विचिन्तयनित्यन्तो वृत्तानुवादः ॥१॥ समातेति । प्रविवेश प्रवेष्टुमुपचक्रमे, उत्त|| रत्र प्रवेशस्प वक्ष्यमाणत्वात् ॥ २॥ यथाई मिति । मुनिपुङ्गवं वसिष्ठम् ॥३-५॥ शान्तयेति । सानुयात्रेण सभृत्येन ॥६॥७॥ ततश्चेत्यादि । नावमिके नवम्याम् ।।
शृङ्गः सुपूजित दशरथस्तदासपुराणि पुरात्तज्ञा वै एथिवीनयम
1८
For Private And Personal Use Only