________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kalassagarsur Gyanmandir
सूजितम्" इत्यादिना । अतएव हि वालिनं जनयामासेत्युक्तम्, न तु तदा जनयामासेति । अन्यत्र तु “बड़वा जनयामासुहृष्टास्तत्र सहस्रशः" इति नत्कालवाची तत्रशब्दः प्रयुक्तः । इन्द्रादयः खल्वेवममन्यन्त ब्रह्मनियोगानन्तरं किमपूर्वसर्गेण पूर्वमन्यार्थसुत्पन्ना एव साहाय्यं करिष्यन्तीति । यस्तु पूर्व पुत्रा नोत्पादितास्ते पुनस्तदा जनयामासुः । अतएव " एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः । तदा देवासुरे युद्धे साह्याथै त्रिदिवौकसाम् ॥” इत्या दिना कोधनादीनामन्याथै सृष्टिरुच्यते । तस्मान कोऽपि विरोध इत्याहुः । यद्वा रामावतारकाल एव वाल्यादिजन्म । वालिजयश्च नार्जुनजयाव्यवाहितो त्तरकालिका, ततःशन्दस्यानन्तर्यमाचपरत्वात् । अतएव "ततः कदाचित्" इत्युक्तम् । अगस्त्येनार्जुनवालिविजययोयुगपन्कथनं रावणजयन्वन, कृष्णः कंसशिशुपालो जघानेतिवत् । दुन्दुभिश्च वरदानेन सदा युवा मत्तश्च । ततश्च तस्य बहुकालानन्तरमपि वालिना युद्धं सम्भवन्येव । एवं मन्यदप्यूह्यम् । सर्वथोपक्रमावगतः क्रमो न बाधितव्यः । देवासुरे युद्धे साह्यार्थमित्यत्रापि साहाय्यसमर्थ इत्यों बोध्यः | अमृतप्राशिनी अमृतप्राशितुल्यावित्यर्थः । यद्वा अयं ब्रह्मानुशासनप्रकारः। प्राचीन एवं प्रसङ्गादद्य कविनोपवर्ण्यते । पुत्रत्वं तु गते विष्णौ, गन्तुं व्यवमित इत्यर्थः । व्यवसायश्च विष्णोर्ब्रह्मणा विविक्ते प्रार्थनात् । अतएव पूर्वसर्गे “ हन्तायं विदितस्तस्य वधोपायो दुरात्मनः" इत्युक्तम् । अतएवामुं वृत्तान्तं सनत्कुमारो विदित्वा सुमन्त्रायोवाचति बोध्यम् । ब्रह्मप्राथनं च रावणस्य मानुषादन्यत्र भयं नास्ति, त्वम् ऋश्यशृङ्गण यक्ष्यमाणम्य दशा रथस्य पुत्रो भवेति । अतएव कृतसङ्केततया विष्णुरुपयात इत्युक्तम् । यदा "ततो देवाः सगन्धर्वाः" इत्यादिकात् पूर्वसर्गान्प्रभृति ब्रह्मलोक वृत्तान्तः । तस्मिन्ससि ब्रह्मसदसीत्यर्थः । अतएव स्वलोकमागच्छेत्युक्तम् । न तु गच्छेति । तथा चैवं सङ्गतिः-पुत्रकामेष्टिपर्यन्तमुक्त्वा तत्रानि पुरुषाविर्भावोपोडातत्वेन चिरन्तनवृत्तान्तमुपक्षिपति ततो देवा इत्यादि । तत इति प्रस्तावान्तरारम्भार्थः । अथ " पितरं रोचयामास तदा दशरथं नृपम् " इत्यन्ते विष्णुवृत्तान्तेऽभिहिते पुत्रत्वं तु गते अभ्युपगते इति पुत्रत्वाङ्गीकारानन्तरं देवांशवानरोत्पत्तेवक्तव्यत्वेऽपि तं ।। वृत्तान्तं तत्रावस्थाप्य “स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् । अन्तानं गतो देवैः पूज्यमानो महर्षिभिः॥” इत्यादिना विष्णुवृत्तान्तमेवा नुक्रम्य गर्भप्रवेशपर्यन्तमुक्त्वा प्रागवस्थापितं देववृत्तान्तमेव "पुत्रत्वं तु गते” इत्यादिना पुनः प्रतिपादयति । एतावदृत्तान्तकालस्य देवमानेना
ल्पत्वेऽपि मनुष्यमानेन बहुवर्षा गताः, रेवतीवरप्रार्थनावत् । अता भागग्रहार्थ समवेत्य ब्रह्मसदासि गत्वा कार्य विज्ञाप्य ततोऽश्वमेधभागान गृहीत्वा Mगता देवा इति सर्व समञ्जसम् ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥
For Private And Personal Use Only