________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
राजयुवराज मन्त्रिणो दर्शयति-सूर्येत्यादिसार्द्धश्लोकेन । सुग्रीवं युवराजं वालिनं राजानं, नलादीन मन्त्रिणः ॥ ३१ ॥ तेषां दुःशासनत्वमाह त इति । ताक्ष्यों गरुडः ॥ ३२ ॥ सर्वेषां शासितारमाह- तांश्चेति ॥ ३३ ॥ साहाय्यसम्पत्तिपौष्कल्यं दर्शयति तैरिति । अर्णवः अर्णववद्वीपम् । विविधसंस्थानैः स्थूलसूक्ष्महस्वदीर्घादिविविधदेह संस्थानवद्भिः । नानाव्यञ्जनलक्षणैः नानात्वाभिव्यञ्जकासाधारणधर्मवद्भिः ॥ ३४ ॥ उक्तमेवार्थे पुनः सर्गान्ते संगृह्य दर्शयति तैरिति । भीमशरीररूपैः भयङ्करशरीखंपैः । रामसहायहेतोः रामसाहाय्यार्थम् । भावप्रधानो निर्देशः ॥ ३५ ॥ नन्वस्मिन्सर्गे “ धनदस्य
11
सूर्यपुत्र च सुग्रीवं शक्रपुत्रं च वालिनम्। भ्रातरावुपतस्थस्ते सर्व एव हरीश्वराः । नलं नीलं हनूमन्तमन्यांश्च हरि यूथपान् ॥ ३१ ॥ ते तार्क्ष्यबलसम्पन्नाः सर्वे युद्धविशारदाः । विचरन्तोऽर्दयन दर्पात्सिंहव्यात्रमहोरगान् ॥ ३२ ॥ तश्च सर्वान महाबाहुर्वाली विपुलविक्रमः । जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् ॥ ३३ ॥ तैरियं पृथिवी शूरैः सपर्वतवनार्णवा । कीर्णा विविध संस्थाने नानाव्यञ्जनलक्षणैः ॥ ३४ ॥ तैर्मेघवृन्दाचलकूटकल्पैर्महाबलैर्वानरयूथ पालैः । बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ॥ ३५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तदशः सर्गः ॥ १७ ॥
सुतः श्रीमान् वानरो गन्धमादनः । वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महावलम् ||" इत्युच्यते । युद्धकाण्डे तु प्रति शार्दूलशक्ये " सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान् । पुत्रा वैवस्वतस्याथ पञ्च कालान्तकोपमाः । गजो गवाक्षो गवयः शरभो ः पर्वतस्य प्रस्थान सान्न । अवतस्थुः असेवन्त ॥ ३०-३३ ॥ तैरिति । नानाभ्यञ्जनलक्षणैः पराक्रमप्रयुक्तासाधारणधर्मो व्यञ्जनम, तत्तच्छरीरा साधारणधर्मो लक्षणम्। यद्वा व्यञ्जनं तत्तच्छरीरासाधारणो धर्मः, लक्षणम् तत्तजातीयासाधारणो धर्मः । रामसहायहेतोः भीमशरीररूपैः भगजनकशरीरा कृतिभिः ॥ ३४ ॥ ३५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां बालकाण्डव्याख्यायां सप्तदशः सर्गः ॥ १७ ॥
मुनि०- नन्वत्र दशरथय मागार्थमागतेन ब्रह्मणा आदिष्टा देवाः ऋषिविद्याधरोरगचारणाश्च पुत्रान् समृजुरित्यनेन दशरथयज्ञानन्तरं वालिप्रभृतयो जाता इति योत्यते । रामस्य एकचत्वारिशे वर्षे रावणो हतः । एतन्मध्ये वाली जातो मृतश्वाभवदित्युक्तिश्व न सङ्गच्छते, पुराणान्तरेषु वालियुग्रीवादयो अमृतमथनादिष्वपि स्थिता इत्युक्तत्वात् कथमिदानीं जाता इत्युक्तमिति चेत् उच्यते त्रह्मा इन्द्रादीन् प्रति मिति पूर्वमंत्र इन्द्रादिभिः सुखान, किन्तु रामसाहाय्यार्थ बहुवानरसृष्ट्रयर्थं चारणकविविद्याधरादीन् सामान्यदेवान् सर्वावसुजध्वमित्युक्तवान् अतएव ऋषिसिद्धविद्याधरोरगादयश्च सखजुरित्युक्तम् ।
For Private And Personal Use Only