________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मेव द्रविणं धनं तेन सम्पनो अतएव रूपसम्मतारूपेण प्रख्याती। स्वयमित्यनेन मानससृष्टिोत्यते ॥ १३ ॥ वरुण इति । पर्जन्यो वर्षाभिमानिदेवता Jumlमारुतस्येति । वसंहननापेतः वदभेद्यशरीरयुक्तः॥१५॥ रुदो ब्रह्मणा नियुक्तोऽपि रक्षःपक्षपातित्वान कश्चन सृष्टवान् । एवं प्रधानवानरसृष्टि मुक्त्वा क्षुद्रवानरसृष्टिं सङ्कदेणाह-त इति । रता आसक्ताः॥१६॥ एवं वानरसृष्टिमुक्त्वाऋक्षादिसृष्टिं प्राधान्येनाइ-मेविति । वपुष्मन्तः दृढवपुष्काः अतएव मेरुमन्दरसाशाः । ऋक्षा भल्लूकाः, गोपुच्छा गोलांगूलाः । अभिजज्ञिरे जाताः। शिप्रमित्यनेन मानससृष्टिरुच्यते ॥ १७॥ यस्येति । रूपं वरुणो जनयामास सुषेणं नाम वानरम् । शरभंजनयामास पर्जन्यस्तु महाबलम् ॥११॥ मारुतस्यात्मजः श्रीमान् हनुमानाम वानरः । वचसंहननोपेतो वैनतेयसमो जवे ॥१५॥ ते सृष्टा बहुसाहस्रा दशग्रीववधे रताः। अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः ॥ १६॥ मेरुमन्दरसङ्काशा वपुप्मन्तो महाबलाः । ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभि जज्ञिरे ॥ १७॥ यस्य देवस्य यद्रूप वेषो यश्च पराक्रमः। अजायत समस्तेन तस्य तस्य सुतः पृथक् ॥ १८ ॥ गोलांगूलीषु चोत्पन्नाः केचित्सम्मतविक्रमाः। ऋक्षीषु च तथा जाता वानराः किन्नरीषु च ॥१९॥ देवा महर्षिगन्धर्वाः ताया यक्षा यशस्विनः । नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः ॥२०॥ सौन्दर्यम्, वेषः संस्था-विडोगः । तस्य तस्य देवस्य तेन रूपादिना समः सुतः, पृथक् अन्योन्यविलक्षणः अजायत, मुखमात्रे वानराकारत्वेऽपि संस्था । नादौ सर्वे पितृतल्या एकात्यर्थः ॥ १८॥ विजातीयासपि वानरोत्पत्तिपार-मोलांगूलीविति। सम्मतविभा. प्रसिद्धविक्रमाः केचिद्वानरा गोला। मूलीपूत्पन्नाः, चिसाक्षीपूत्पन्नाः, केचिद्वानराः किनरीषु चोत्पन्ना इति योजना ॥ १९ ॥ उत्पादक क्षेत्रवैविध्यमाइ-देवा इत्यादिश्नांकत्रय द्रविणं नाम बलं नौ चपसम्मतो रूपेण सम्मती प्रसिद्धौ १३॥ वरुण इति । पर्जन्यः वृष्टचभिमानिदेवता गन्धमादनसुषेणशरमाणामत्र प्रतिपादितजन्म प्रकार एक वास्तषः बुद्धकाण्डे रावणं प्रतिशार्दूलेन “सुषेणश्चात्र धर्मात्मा पुत्रो धर्मस्य वीर्यवान्" इत्यादिना प्रकारान्तरेणोत्पत्तिकथनं तस्य यथावस्थितजन्म परिज्ञानाभावात ॥ १४-१७ ॥ यस्य देवस्येति । रूपं सौन्दर्य, वेषः संस्थानविशेषः ॥ १८ ॥ १९ ॥ देवा इत्यादि । तााः तायवर्गीयाः । नागा महाकुल
१ वानरर्षभम् । इति पातान्तरम । २ जवे । मवानर मुख्येषु बुद्धिमान बलवानपि । इत्यधिकः पाठः ।
For Private And Personal Use Only