________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥८५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शेषः । सृष्टिप्रकारमाह-जृम्भमाणस्येति । स इति शेषः । अत्र पार्वतीशापेन स्वक्षेत्रे पुत्रोत्पादनासम्भवादप्सरःप्रभृतयः क्षेत्रतयोक्ताः । गुणवत्पुत्रलाभाय मुख्यास्वित्युक्तम् । अयोनिजत्वेन सद्यःप्रवृद्धत्वसिद्धये तनुष्वित्युक्तम् । नन्दिकेश्वरशापानुसारेण हरिरूपेणेत्युक्तम् । वक्ष्यति हि दिग्विजये रावणंप्रति नन्दी "तस्मान्मद्रूपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्यन्ति वधार्थं हि कुलस्य तब वानराः ॥ " इति ॥ ६ ॥ ते तथेति । प्रतिश्रुत्य अङ्गीकृत्य । एवं वक्ष्यमाणरीत्या ॥ ७ ॥ ऋषय इति । वनचारिणः वानरान् ॥८॥ वानरेन्द्रमिति । महेन्द्राभं महेन्द्रपर्वताभम् । ननु वालिनः कथं रामसहायार्थत्व रामवध्यत्वात्। उच्यते-अङ्गदोत्पादनद्वारा तस्य साहाय्यकरणात् । किंच यदि वाली नयेत तदा सर्वेषां वानराणां सहायत्वं न स्यात् सति ते तथोक्ता भगवता तत् प्रतिश्रुत्य शासनम् । जनयामासुरेवं ते पुत्रान् वानररूपिणः ॥ ७ ॥ ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः । चारणाश्च सुतान्वीरान् ससृजुर्वनचारिणः ॥ ८ ॥ वानरन्द्र महेन्द्राभमिन्द्रो वालिनमूर्जितम् । सुग्रीवं जनयामास तपनस्तपतां वरः ॥ ९ ॥ बृहस्पतिस्त्वजनयत्तारं नाम महाहरिम् । सर्ववानरमुख्यानां बुद्धिमन्त मनुत्तमम् ॥ १० ॥ धनदस्य सुतः श्रीमान् वानरो गन्धमादनः । विश्वकर्मा त्वजनयन्नल नाम महाहरिम् ॥११॥ पावकस्य सुतः श्रीमान्नलोऽग्निसदृशप्रभः । तेजसा यशसा वीर्यादत्यरिच्यत वानरान् ॥ १२ ॥ रूपद्रविणसंपन्ना वश्विनौ सम्मतौ । मैन्दं च द्विविदं चैव जनयामासतुः स्वयम् ॥ १३ ॥
वालिनि सुग्रीवविरोधिनि सुग्रीवमैच्या वानरसहायसिद्धिः । वालिमैत्र्यां तु रावणः क्षणादेव सीतां दद्यात् । अतः सुग्रीवसख्यनिमित्तत्वाद्वालिनो रामसहायत्वमिति । तपनः सूर्यः ॥ ९॥ बृहस्पतिरिति । सर्ववानरमुख्यानामिति निर्द्धारणे षष्ठी । बृहस्पतिपुत्रत्वादनुत्तमं बुद्धिमन्तम् ॥ १० ॥ धन |दस्येति । कुबेरपुत्रत्वात् श्रीमानित्युक्तम् । महाहारें सर्वकार्यनिर्माणदक्षम् ||११|| पावकस्येति । अत्यरिच्यत अतिशयितोऽभूत् ॥ १२॥ रूपेति । रूप विधार्थी विष्णुरवतरिष्यतीति जाम्बवान् मया सृष्टः । जाम्बवतः सृष्टिप्रकारमाह-जृम्भमाणस्येति ॥ ६-८ ॥ वानरेन्द्रमिति । पूर्वमेव मया सृष्ट इति श्लोकस्थं पूर्वमितिपदमत्राप्यनुषञ्जनीयम् । यथाश्रुतत्वे भगवदवतारसमये वालिसुश्रीवयोरनुत्पत्तिरिति । रामसहायसृष्टिप्रकरणे वालिसृष्टिप्रकथनं साक्षाग्रामसहायकत्वा भावेऽपि "आत्मा वै पुत्रनामासि " इति श्रुत्युक्तप्रकारेण तस्यापि स्वपुत्रभूताङ्गदद्वारा सहायकत्वात् । अत्यरिच्यत अतिशेते स्म ॥ ९-१२ ॥ रूपद्रविणसम्पत्रो
For Private And Personal Use Only
टी.बा. कां
स० १७
॥८५॥