________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
विष्णोरन्तानानन्तरं कार्यद्वयं प्रवृत्तम्, पायसहस्तस्याग्निपुरुषस्योत्थानं देवान् प्रति ब्रह्मनियोगश्च । तत्र वाचःक्रमवर्तित्वेन प्रथमोपस्थितममिस पुरुषोत्थानं तत्प्रसक्तं च सर्वमुक्त्वा अथ ब्रह्मनियोगतत्फले दर्शयति सप्तदशे-पुत्रत्वमित्यादि । गते गन्तुं प्रवृत्ते । भगवान् भाविकार्यज्ञः ॥१॥ सत्येति । सह अप्राधान्येन अयन्त इति सहायाः किङ्कराः तान् । कामरूपिणः कपटराक्षसयुद्धक्षमशरीरिणः ॥२॥ उक्तसहायान विशेषयति त्रिभिःमायेत्यादि । माया आश्चर्यशक्तिः, तद्विदः। जवे वेगे विषये । नयज्ञान्नीतिज्ञान् । असंहार्यान, परैरिति शेषः। उपायज्ञान् अनागतविधानज्ञान् । यदा नय
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः। उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् ॥1॥ सत्यसन्धस्य वीरस्य सर्वेषां नो हितैषिणः। विष्णोः सहायान बलिनः सृजध्वं कामरूपिणः ॥ २॥ मायाविदश्च शूरांश्च वायु वेगसमान जवे । नयज्ञान बुद्धिसम्पन्नान् विष्णुतुल्यपराक्रमान् ॥३॥ असंहानुपायज्ञान सिंहसंहननान्वि तान् । सवांत्रगुणसम्पन्नानमृतप्राशनानिव ॥४॥अप्सरस्सु च मुख्यासु गन्धर्वीणां तनूपु च । सृजध्वं हरिरूपेण
पुत्रांस्तुल्यपराक्रमान् ॥५॥ पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः । जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥६॥ ज्ञान युक्तिशालिनः । उपायज्ञान सामाधुपायज्ञान् । सिंहसंहननान्वितान् सिंहतुल्यसंस्थानयुक्तान् । सर्वास्त्राणां यो गुणः शक्तिस्तेन सम्पन्नान् । अमृत प्राश्चन्तीत्यमृतप्राशनाःकर्तरि ल्युद। पीतामृतानिव, मृत्युरहितानित्यर्थः । हरिरूपेण वानररूपेणोपलक्षितान् । प्रायिकाभिप्रायमिदम् । तुल्यपरा कमान आत्मसहापराकमान् ॥३-६॥ देवत्वाविशेषात् भवतापि पुत्रोत्पादन कार्यमिति मावोचवामित्याह-पूर्वमिति । सृष्टः, भाविरामसहायबुद्धयेति । पुषत्वमिति । गते गन्तुमुपक्रान्ते ।। १-३॥ असंहार्यान् परैः संहर्तुमशक्यान् । दिव्यसंहननान्वितान् दिव्यदेहयुक्तान् । सर्वास्त्रगुणसम्पन्नान् अस्त्रप्रयोगोपसंहारादि। गुणसंयुक्तान् । अमृतं प्रान्तीति अमृतप्राशनान् । गन्धर्वीणां गन्धर्वपत्नीनाम् । सृजध्वम् । हरिरूपेणेत्यभिधानं "तस्मान्मपसंयुक्ता मद्वीर्यसमतेजसः । उत्पत्स्य|न्ति वधार्थं तु कुलस्य तव वानराः ॥” इति रावणविषयं नन्दिकेश्वरवाक्यं हृदि कृत्वा । तुल्यपराक्रमान स्वानुरूपपराक्रमान ॥४॥५॥ पूर्वमेवेति । पूर्वमव रावण
१ दिव्यसंहननान्वितान् । इति तीर्थावपाठः । २ तनूपु च । यक्षपन्नगकन्या
भविद्यावरीषु च । किमरोणां च गात्रेषु वानराणां तनूषु च ।। इत्यधिकः पाठः ।।
For Private And Personal Use Only