________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
केशाश्च यस्य तत्तथा । समुत्सेधः उन्नतिः । दृप्तशार्दूलविक्रमं तद्वद्भयङ्करम् । प्रभामण्डलवत्तया दिवाकरसमाकारम्, तैक्ष्ण्यातिशयेन दीप्तानला शेखो पमम्। तप्तजाम्बूनदमयीं द्रुतकनकमयीम् । राजतः रजतविकारः अन्ते उपरि परिच्छदः पिधानपात्रं यस्यास्तान् । पात्र्यास्स्त्रीलिङ्गत्वेन पत्नीसाम्यम् । मायामयीमिव असम्भावितत्वेनाश्वर्यावहामित्यर्थः । स्वयं प्रगृह्य प्रादुर्भूतमित्यन्वयः । विपुलतरत्वेन हस्तमात्रेण गृहीतुमशक्यत्वात् बाहुभ्यामित्युक्तमू ॥११- १५ ॥ समवेक्ष्येति । दशरथं समवेक्ष्पेदमत्रवीत् । कथम् ? इहागतं मां प्राजापत्यं प्रजापतेरागतम् । दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः” इति प्राग्दी शुभलक्षण सम्पन्नं दिव्याभरणभूषितम् । शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥ १३ ॥ दिवाकरसमाकारं दीप्तानल शिखोपमम् । तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥ १४ ॥ दिव्यपायससम्पूर्णा पात्रीं पत्नीमिव प्रियाम् । प्रगृत्र विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥ १५ ॥ समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ १६ ॥ ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः । भगवन स्वागतं तेऽस्तु किमहं करवाणि ते ॥ १७ ॥ अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥ १८ ॥ इदं तु नरशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्द्धनम् ॥ १९ ॥ भार्याणामनुरूपाणामश्रीतेति प्रयच्छ वै । तासु त्वं लप्स्यसे पुत्रान् यदर्थे यजसे नृप ॥ २० ॥ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् । पात्री देवान्न सम्पूर्णी देवदत्तां हिरण्मयीम् ॥ २१ ॥
व्यतीयो ण्यप्रत्ययः । नरं विद्धि ॥ १६ ॥ ततः परमिति । ततः परम्, तदनन्तरमिति यावत् । 'प्राजापत्यं च मां विद्धि' इत्युक्तयनन्तरमित्यर्थः । तदा तदेव ॥१७॥ अथो इति । अथो अथेति पर्यायौ । अर्चयता, अश्वमेधपुत्रकामेष्टिभ्यामिति शेषः ॥ १८ ॥ इदंशब्दार्थमाह- इदं त्विति । देवनिर्मितं देवेन विष्णुना निर्मितम् । धन्यं धनकरम् । स्वर्गादित्वाद्यत् ॥ १९ ॥ भार्याणामिति । अनुरूपाणाम् सवर्णानामित्यर्थः । चतुर्थ्यर्थे षष्ठी ॥ २० ॥ तथेति । देवानं देव हर्यक्षस्य सिंहस्येव तनुजानि लोमानि श्मश्रुप्रवराः मूर्धजाश्च यस्य । " हर्यक्षः केसरी हरिः " इत्यमरः । हर्यक्षस्य राक्षसस्येति वा, समुत्सेधः-उसतिः, टमशाल वत् विक्रमः पदविन्यासो यस्य तत् । राजतान्तपरिच्छदाम- राजताः रजतनिर्मिताः अन्ते परिच्छदाः रचनाविशेषाः यस्यास्ताम् । मायामयीमित्र विचित्रका करी मिव ॥ ११-१५ ॥ समवेक्ष्येति । प्राजापत्यं प्रजापतिसम्बन्धिनम् । प्रजापतिना प्रेषितमिति यावत् । नरं पुमांसम् ॥ १६ ॥ १७ ॥ अथो इति । अर्चगता ज
For Private And Personal Use Only