________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा महाभारतोक्तेः । गतदोषकल्मषं दोपा रागद्वेषादयः, गतानि तद्रूपकल्मपाणि यस्मात्तत्तथा । अनेनेन्द्रलोकादिव्यावृत्तिः। गतज्वरः आश्रितसंरक्षणेन । गतव्यथः । अनेन पुनः प्राप्तिपर्यन्तं संसारिविषये कदैते निस्तरिष्यन्तीति चिन्ताकुलत्वमुक्तम् । आगच्छेत्यनेन वैकुण्ठादवतीर्णत्वं गम्यते । अत्र स्वलोंकपदस्येन्द्रलोकपरत्वे गुप्तत्वगतदोपकल्मपत्वादिविरोधः । अन्तरिक्षादुपरितनलोकमावस्य स्वर्गपदवाच्यत्वात् । अतएव हि क्वचिद्ब्रह्मलोकादा वपि स्वर्गपदप्रयोगः। "ब्रह्मलोकं प्रयास्यति" इत्यत्रापि ब्रह्मणः स्वस्य लोकम् अप्राकृतस्थानम् परमपदमिति व्याख्यातम् । स्वलोकमिति सम्यक् पाठः । सुरेन्द्रः विष्वक्सेनः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमनीराख्याने बालकाण्डव्याख्याने पञ्चदशः सर्गः ॥१५॥
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः। जाननपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१॥ उपायः को वधे तस्य राक्षसाधिपतेस्सुराः। यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥२॥ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् । मानुषी तनुमास्थाय रावणं जहि संयुगे ॥३॥
स हि तेपे तपस्तीवं दीर्घकालमारिन्दम । येन तुष्टोऽभवद्रमा लोककृल्लोकपूर्वजः॥४॥ एवं मनुष्यलोके दशरथपुत्रत्वेनावतीर्य रावणवधः कर्तव्य इत्युक्तम्, तत्र किं मया उपेन्द्रादिवत् स्वस्वरूपेण स्थातव्यम् , उत प्रकारान्तरणति भगवान् बहुमानार्थ पृच्छति-ततइत्यादि। न रिष्यन्ति न नश्यन्तीति नराः, नित्यवस्तूनि । “अन्येभ्योऽपि दृश्यते" इति डप्रत्ययः। सुप्सुपेति नगर्ने । कादिवत् समासः। नराणां समूहो नारम् । “तस्य समूहः" इत्यण् । नारमयनं वासस्थानं यस्यासौ नारायणः । “पूर्वपदात्संज्ञायामगः" इति णत्वम्।। सर्वान्तर्यामीत्यर्थः । यदा नाराणामयनं नारायणः। इध्मब्रश्चनः पलाशशातन इत्यादिवल्ल्युडन्तस्यापि पुंल्लिङ्गत्वम्, एवं सर्वस्मात्परोऽपि सुरसत्तमैः । नियुक्त इत्याश्रितपारतन्त्र्यमुच्यते । तादृशो विष्णुः जानन्नपि उत्तरनिश्चयज्ञोऽपि सम्मानार्थ शुक्ष्णं मधुरं वचनमब्रवीत् ॥ ३॥ उपाय इति । आस्थाय । स्वीकृत्य यमुपायमास्थाय तं निहन्यां स उपायः क इत्यन्वयः॥२॥ एवमिति । मानुषी न तु देवीम् ॥३॥ तत्र हेतुमाह-स हीति । लोककृत्वे हेतुः दोषशब्देन रोगादयो लक्ष्यन्ते । सुरेन्द्र हे उपेन्द्र ! अतएव स्वलोकमागच्छेति प्रार्थना युज्यते । गुप्तम् त्वत्प्रभावेनेति शेषः ॥ ३३ ॥ इति श्रीमहेश्वरतीर्थविर चिताय० बालकाण्डव्याख्यायो पञ्चदशः सर्गः ॥ १५ ॥ ततो नारायण इति । नियुक्तः प्रार्थितः । जानन्, वधोपायमिति शेषः ॥ १॥ देवत्वं विहाय मनुष्यत्वं
१ देखो नियुक्तः । २ रावणस्य दुरात्मनः । ३ मान रूपमास्थाय । इति च पाठः ।
For Private And Personal Use Only