________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भ.
॥८१॥
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
स्पृहणीयः स्वयमन्यं स्पृहयामास । यद्वा " तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ” इत्युक्तरीत्या परत्वचिह्नपुण्डरीकाक्षत्वयुक्तः । एवञ्च सर्वस्मात् परोऽपि जन्म रोचयामास, यथा जनिमतो जन्महानिरभिलषिता तथा जनिरहितस्यापि जनिरभिलषितेत्यर्थः । दुर्लभं ह्यभिलषितं भवति । कृत्वाऽऽत्मानं चतुर्विधं जन्माभिलाषेऽपि दशरथगुणातिरेकेण चतुर्विधशरीरपरिग्रहमभिलषितवान् । आत्मानं स्वशरीरं चतुर्विधं पायसविभागक्रमेण । पितरं “पिता पुत्रेण पितृमानू योनियोनो" इत्युक्तरीत्या सर्वपिता स्वपुत्रं कञ्चित्पितरमभिललाप रोचयामास ऐच्छत् । तदा रक्षणोद्योगसमये । दशरथं नृपम् “गुणै दशरथोपमम्" इत्युक्तरीत्या जनित्वार्जितैः स्वाभाविकैश्व गुणैः स्वसदृशं देवोक्तं दशरथमेव स्वजन्मभूमित्तेन निश्चितवानित्यर्थः ॥ ३० ॥ तत थे। इति । ततः भगवदिच्छानन्तरम्, सरुद्रा इत्यनुवादात् पूर्वं रुद्रोऽपि शरणागत इति सिद्धम् । दिव्यरूपाभिः दिव्यात्मस्वरूपविषयिणीभिः स्तुतिभिः ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥ ३१ ॥ तमुद्धतं रावण मुग्रतेजसं प्रवृद्धदर्प त्रिदशेश्वरद्विषम् । विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥ ३२ ॥ तमेव हत्वा सबलं सवान्धवं विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम् ॥३३॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सगः ॥ १५ ॥
स्तुतिरूपप्रबन्धैः तुष्टुवुः श्वाषयामासुः । मधुसूदनमिति मधुवयमपि निरसनीय इत्याशयेनोक्तम् ॥ ३१ ॥ उक्तमर्थ सर्गान्ते पुनः संगृह्णाति - तमिति उद्धतं जन्मत एवोद्धतम् । तं प्रसिद्धम् उग्रतेजसं उग्रप्रतापं वरदानेन प्रवृद्धदर्पम् । लोकान् विरावयतीति विरावणम्, सर्वलोकानामाक्रन्दयितारं, तपस्विनां कण्टकं शत्रुम्। "क्षुद्रे शत्रौ च कण्टकः" इति वैजयन्ती । अतएव तपस्विनां भयावहं तं रावणं साधु निःशेषम् उद्धर उन्मूलय ॥ ३२ ॥ तमेवेति । एवकारेण विभीषणव्यवच्छेदः । स्वलोकं वैकुण्ठम् । क्वचित्स्वलोकमिति पाठः । चिरं चिरकालस्थायि । अनेन ब्रह्मलोकादिव्यावृत्तिः । सुरेन्द्रेति सम्बोधनम् । गुप्तम् अस्मदादिभिः दुरधिगमम् । “अत्यकनिलदीप्तं तत् स्थानं विष्णोर्महात्मनः । स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः ॥” इति त्वमिति । नृणां लोके मनः कुरु । अवतरितुमिति शेषः ॥ २५ ॥ एवमिति । मानुषे मनुष्येषु ॥ २६-२९ ॥ तत इति । रोचयामास ऐच्छत् ॥३०॥३१॥ तमिति उग्रतेसम दीप्तविक्रमम् । विरावणं विगवयति लोकानिति विरावणः तम् । उद्धर उत्पाटय ||३२|| तमेवेति 'गतज्वरः विनिवर्तिताश्रिततापादिः। गतदोषकल्मषः
For Private And Personal Use Only
टी.बा. कां.
स० [१५]
#1<201