________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyanmandir
बा.रा.भू.
जगत्पतिः जगत्पोषकः,ज-तः पोषणं नाम अन्य यः परिभवनिवारणम् । एवंविधस्योपास्यत्वं शरणागतिमन्त्रोक्तचरणपदोपलक्षितप्रपत्नव्यविग्रहवैशिष्टचं च व्यञ्जितम् ॥३६॥ टी.बा.कां. ब्रह्मणेति । तत्र सदसि ब्रह्मणा समागम्य समाहितः करिष्यमाणरक्षणकृत्ये एकाग्रः तस्थौ। तम् आश्रितरक्षणसन्नद्धम् । सर्वे सुराः ब्रह्मादयः॥
MUVास.१५ पितामहपुरोगमानित्युपसंहारात् । समभिष्ट्रय सम्यक् स्तुत्वा । संनताः सम्यक् नताः प्रणताः सन्तः अब्रुवन् ॥ १७॥ त्वामिति, अर्द्धमेकं वाक्यम् ।। हे विष्णो ! लोकानां हितकाम्यया हितेच्छया तां नियोक्ष्यामहे उत्साहयिष्यामहे । “योगः सन्नहनोपायध्यानसङ्गतियुक्तिपु" इत्यमरः । “स्मारये त्वा न शिक्षये" इतिवत । केवलं त्वां प्रोत्साहयिष्यामः । स्वयमेव स्वकीयरक्षणे प्रवृत्तत्वादिति भावः । यदि नियोजनमेवार्थः स्यात् तदा पूर्वश्लोकोक्तम्
ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्ट्रय संनताः ॥ १७॥ त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ॥ १८ ॥ राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभोः । धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः॥ १९॥ तस्य भार्यासु तिसृषु द्वीश्रीकीयुपमासु च । विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतु विधम् ॥२०॥तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् । अवध्य दैवतैर्विष्णो समरे जहि रावणम् ॥२१॥ स हि देवान सगन्धर्वान सिद्धांश्च ऋषिसत्तमान् । राक्षसो रावणो मूखों वीर्योत्सकेन बाधते ॥ २२॥ ऋषयस्तु ततस्तेन गन्धर्वाप्सरसस्तथा। क्रीडन्तो नन्दनवने क्रूरेण किल हिंसिताः ॥२३॥ अभिष्ट्रय सन्नता इत्येतद्विरुद्धयते, किंच नियोजनमत्र प्रार्थनमेव । एवमुत्तरत्र भगीरथवचने 'हरस्तत्र नियुज्यताम्' इति वक्ष्यति ॥ १८॥ किं नियोज्य मित्यवाह द्वाभ्याम्-राज्ञ इत्यादि । पितृभावयोग्यत्वपराणि विशेपणानि । तस्येति यजमानो हस्तेन निर्दिश्यते । ह्रीश्रीकर्तियो दक्षकन्याः ता उपमा यासां तास्तथा। चातुर्विध्यविधानं रावणरावाणिलवणगन्धर्वविनाशाय ॥१९॥२०॥ मम पुत्रभावेन भवतां कि प्रयोजनम् तबाहुः-तत्रेति । तत्र दशरथ भार्यासु। प्रवृद्धं वरबलभुजबलैरभिवृद्धम् । मानुषभावः किमर्थ भजनीयस्तत्राहुः अवध्यं देवतैरिति । “कृत्यानां कर्तरिवा" इति पक्षे तृतीया ॥२१ ८॥ स किमर्थ हन्तव्यस्तत्राहुः-स हीति । वीयोत्सेकेन वीर्यकृतगर्वेण ॥ २२ ॥ ऋषय इति । ततः वीर्योत्सेकात् । करेण तेन रावणेन ऋषयो हिसिताः। नित्यमिति तद्वरदानरूपं त्वयोक्तं वाक्यम् . सर्व दोर्जन्यमिति शेषः ॥७-११॥ एवमुक्त इति । इन्तेति हर्षे । बधोपायो मृत्युः ॥१२-१७॥ स्वामिति । नियोक्ष्या
For Private And Personal Use Only